________________
Shri Mahavir Jain Aradhana Kendra
षडशीति
प्रकरणम्
॥१७८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इति चेदू, उच्यते, देवा हि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन चतुर्विधाः । भवनपतयश्चासुरनागसुवर्णादिभेदेन दशविधाः । तत्रासुरकुमारा अपि तावद्वनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रगतप्र| देशराशिसंबन्धिप्रथमवर्गमूलास येयभागगतप्रदेश र शिप्रमाणास्तासां संबन्धी यावान् प्रदेशराशिस्तावत्संख्याकाः । एवं नागकुमारादयोऽपि प्रत्येकं द्रष्टव्याः । तथा संख्येययोजनप्रमाणाकाशप्रदेशसूचिरूपैः खण्डैर्यावद्भिर्घनीकृतस्य लोकस्य (उपरितनाधस्तनप्रदेश रहितं मण्डकाकारं ) प्रतरमपहियते तावत्प्रमाणा व्यन्तराः । उक्तं च- "संखेज्जजोयणाणं, सूइपएसेहिं भाइयं पयरं । वंतरसुरेहि हीरइ, एवं एक्केक्कभेदेणं ॥ १ ॥” इति । अस्या अक्षरगमनिका - संख्येययोजनानां या सूचिरेकप्रादेशिकी पतिस्तत्प्रदेशैः संख्येययोजनप्रमाणैकप्रादेशिकपङ्गिप्रदेशैरिति यावद्भक्तं प्रतरं व्यन्तरसुरैरपहियते तावद्भागलब्धराशिप्रमाणा व्यन्तरसुरा इत्यर्थः । इयमत्र भावना - संख्येययोजनप्रमाणसूचिप्रदेशाः किला सत्कल्पनया दश प्रतरप्रदेशाश्च लक्षम्, तस्य दशभिर्भागे हृते लब्धाः सहस्रा दश एतावन्त इत्यर्थः । एवमुक्तेन प्रकारेण प्रतिनिकार्यं व्यन्तराणां भावना कार्या । न चैवं सर्वसमुदायप्रमाण नियमव्याघातप्रसङ्गः, सूचिप्रमाणहेतुयो जनसंख्येयत्वस्य वैचित्र्यादिति । तथा षट्पञ्चाशदधिकशतद्वयाङ्गलप्रमाणैराकाशप्रदेश सूचिरूपैः खण्डैर्यावद्भिर्यथोक्तस्वरूपं प्रतरमपहियते तावत्प्रमाष्णा ज्योतिष्का देवाः । तदुक्तम् — “छप्पन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ" इति । अत एवोक्तं सूत्रे - " वाणमंतरेहिंतो संखेज्जगुणा जोइसिया” इति । तथा वैमानिकदेवा घनीकृतस्य लोकस्य या ऊर्ध्वाधआ१ एतत्कोष्ठकान्तर्वर्त्तिपाठ एक एव पुस्तक उपलभ्यते ।
For Private And Personal Use Only
| टीकाद्वयोपेतम् ॥
॥ ६२ ॥