________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्॥ १७७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'भणामि' प्रतिपादयामि, 'स्वस्थानेऽपि' सप्रतिभेदे गत्यादी 'सामान्यतो' देवमनुष्यादिगतिभेदानपेक्षं यथा भवति, एतदेवाह - 'नर' इत्यादि, अत्र यथासंख्येन पयोजना कार्या, सा चैवम् — नरास्तावत् स्तोकाः १, ततो नारका असंख्यातगुणाः २, ततो देवा असंख्यातगुणाः ३, ततस्तिर्यञ्चोऽनन्तगुणाः ४ तत्रानन्तवनस्पतिसद्भावात् । एवमन्यत्रापि यथासंभवं वनस्पतिमाश्रित्यानन्तत्व भावनाकार्या । इति गाथार्थः ॥ ५३ ॥
इति गतिष्वल्पबहुत्वमुक्तम् । तथा
( मल० ) गत्यादिषु चतुर्दशसु मार्गणास्थानेषु 'सठाणेवि' इति अपिरवधारणे स्वस्थान एव न तु परस्थाने, स्वगतनारकाद्यपेक्षयैवेति यावत् 'अल्पबहुत्वम्' एतेभ्य एते स्तोका एते बहव इत्येवंलक्षणं भणामि, “वर्तमानसामीप्ये वर्तमानवद्वा" इति भविष्यति वर्तमाना, ततो भणामि भणिष्यामीत्यर्थः । कथम् ? इत्याह- 'सामान्यतः ' सामान्येन स्तोकविशेषाधिकासंख्यातादित्वरूपेण, न तु विशेषेण श्रेणिमतराद्याकाशप्रदेशोत्सर्पिण्यादिसमयापहारलक्षणेन, तथाऽभिधाने सति ग्रन्थगौरवापत्तितः संक्षिप्तरुचिविनेयजनोपकारानुपपत्तेः । तदेव सामान्यतोऽल्पबहुत्वमाह - 'नरनिरय' इत्यादि । इह यथासंख्येन पदयोजना कर्तव्या । सा चैवम् — नरा मनुष्या निरयदेवतिर्यग्योनिभ्यः सकाशात्स्तोकाः, यतस्तैरुत्कृ|ष्टपदवर्तिभिरपि सर्वतः सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकस्योपरितनाधस्तनप्रदेशरहित मे कैकप्रदेशपङ्किरूपं श्रेणिमात्रमव्यङ्गुलमात्रक्षेत्र प्रदेशराशि संबन्धितृतीयवर्गमूलगुणित प्रथमवर्गमूलप्रदेशप्रमाणैरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमा१ "नारकादिपदापेक्षया" इत्यपि । 'नारकादिभेदापेक्षया' इत्यपि ॥
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ ६१ ॥