________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
****
CARCISCCUSECRACES
बेतेषूत्पद्यन्ते ते च तेजोलेश्यावन्तः।जीवश्च यल्लेश्यो नियते अग्रेऽपि तल्लेश्य एवोपपद्यते, “जल्लेसे मरइ तल्लेसे उववजई" इतिवचनात् । तत एतेषामपर्याप्तावस्थायां कियत्कालं तेजोलेश्या भवतीति ॥५१॥ केवलजुयलअहक्खायसुहमरागेसुसुक्कलेसेव । लेसासु छसु सठाणं गइयाइसु छावि सेसेसु ॥ ५२ ॥ | (हारि०) व्याख्या-केवलयुगलयथाख्यातसूक्ष्मरागेषु इति इन्दः, इति पदचतुष्के शुक्लका लेश्या।
तथा लेश्यासुषमु खस्थानम् । कृष्णलेश्यायां कृष्णलेश्या, नीललेश्यायां नीललेश्या, इत्यादि । तथा | गत्यादिषु शेषेष्वेकचत्वारिंशत्पदेषु षडपि लेश्याः। इति गाथार्थः ॥५२॥
इति योजिता लेश्याः, इतोऽल्पबहुवमुच्यते(मल०) केवलयुगले केवलज्ञानकेवलदर्शनरूपे, तथा यथाख्यातसंयमे सूक्ष्मसंपरायसंयमे च शुक्लेश्या भवति न शेषलेश्याः, केवलयुगलादावेकान्तविशुद्धपरिणामभावात् , तस्य शुक्ललेश्याऽविनाभूतत्वात् । तथा षट्सु लेश्यासु 'स्वस्थानम्' इति स्वा स्वा लेश्या भवति यथा कृष्णलेश्यायां कृष्णलेश्या इत्यादि । 'शेषेषु च गत्यादिमार्गणास्थानकेष्वेकचत्वारिंशत्संख्येषु षडपि लेश्या भवन्तीति ॥५२॥
तदेवमुक्ता मार्गणास्थानकेषु लेश्याः, इदानीमेतेष्वेव चतुर्दशसु मार्गणास्थानेषु स्वस्थानापेक्षयाऽल्पबहुत्वमुच्यतेगइयाइसु अप्पवहं, भणामि सामन्नओ सठाणे वि।नरनिरयदेवतिरिया, थोवा दुअसंखणंतगुणा ॥५३॥ (हारि०) व्याख्या-'गत्यादिषु' चतुर्दशस्थानेषु 'अल्पबहुत्वं' एते स्तोका पलेप एते बहव इत्येवंलक्षणं
*******
For Private And Personal Use Only