SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SEXSA दानं प्रति करणभावो न विरुष्यते निष्पमत्वात, अतस्तदानीमौदारिकादिमिश्रकाययोग उपपद्यत एव, अत एवोकम्"तेण पर मीसेणं” इति तस्मादस्ति आहारकस्याप्युत्पत्तिप्रथमसमये कार्मणकाययोग इति । 'कम्मणमणाहारे' इति व्यवच्छेदफलं हि वाक्यमतोऽवश्यमवधारयितव्यम् । तच्चावधारणमिहैवं कार्मणमेवैकमनाहारके न शेषयोगा असंभवा दिसिन पुनरेवं कार्मणममाहारकेण्जेवेति । आहारकेष्वप्युत्पत्तिप्रथमसमथे कार्मणयोगसंभवान्नापि कार्मणमनाहारकेषु * भवत्येवेत्यवधारणम्, अयोग्यवस्थायामाहारकस्यापि कार्मणकाययोगाभावात् । वक्ष्यति च-"गयजोगो उ अजोगी" इत्येवमन्यत्रापि यथासंभवमधारणविधिरनुसरणीयः॥४१॥ तदेवं मार्गणास्थानेषु योगानभिधाय साम्प्रतमेतेष्वेवोपयोगानभिधित्सुस्तानेव स्वरूपतस्तावदाहनाणं पंचविहं तह, अन्नाणतिगंति अहसागारा। चउदसणमणगारा, बारस जियलक्खणुवओगा ॥४२॥ । (हारि०) व्याख्या-'ज्ञान' बोधः 'पञ्चविधं' मतिज्ञानादिपञ्चप्रकारम् , तथाशब्दः समुच्चयार्थः, 'अज्ञानत्रिक' मत्पज्ञानादित्रिभेदम् , इत्येवंप्रकारा अष्टेति संख्याः 'साकारा' सहाकारैर्विशेषग्राहकैर्वर्तन्त इति साकाराः। तथा चतुर्णा दर्शनानां चक्षुर्दर्शनादीनां समाहारः, चतुर्दर्शनमितिशब्दोऽत्रापि योज्यः, तेच इत्येवंरूपा अनाकाराः सामान्यग्राहिणो द्वादशेति संख्योपयोगा इति सण्टङ्कः । कीदृशास्ते ? इत्याह'जियलक्खण' इति विभक्तिलोपाजीवानां पूर्वोक्तस्वरूपाणां लक्षणानि चिहानि जीवलक्षणानि-"उपयोगलक्षणो जीवः" इतिवचनात् । इति गाथार्थः॥४२॥ AA-%AC-LRAKAR ********* For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy