________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीति-IN गत्वान्नास्य कार्मणकयोगो भवन्ति । इति गाथार्थः॥४१॥
टीकाद्वयो प्रकरणम्एवं मार्गणास्थानेषु योजिता योगाः, साम्प्रतमुपयोगनामसूचां कुर्वस्तावदाह
&ापेतम् ॥ ॥१७॥
(मल०) कार्मणम्, औदारिकद्विकमौदारिकतन्मिश्रलक्षणं, वैक्रियद्विकं वैक्रियतन्मिश्रलक्षणं, चरमभाषा अन्तिमभाषा इत्येते षडू योगाः 'असंज्ञिनि' संजिव्यतिरिक्त जीवे भवन्ति । तत्र कार्मणमपान्तरालगतौ उत्पत्तिप्रथमसमये च, औदारिकमिश्रमपर्याप्तावस्थायाम् , पर्याप्तावस्थायामौदारिकम्, वैक्रियद्विकं बादरपर्याप्तवायुकायिकानाम् , चरमभाषा शङ्खादिद्वीन्द्रियादीनामिति । 'अकम्मगाहारगेसु' इति आहारकेषु कार्मणकाययोगविकलाः शेषाश्चतुर्दशापि योगा भवन्ति । यत्तु कार्मणं तन्न घटत एव, तस्यापान्तरालगतौ केवलिसमुद्धाततृतीयचतुर्थपश्चमसमयेषु वा भावात् , तदानीं चानाहारकत्वात् । एतच्चाचार्येणोक्तं न सम्यगवगम्यते, यत ऋजुगतौ विग्रहगतौ वा उत्पत्तिप्रथमसमये-"जोएण कम्मएणं, आहारेई अणंतरं जीवो । तेण परं मीसेणं, जाव सरीरस्स निप्फत्ती ॥१॥” इति परममुनिवचनप्रामाण्यादाहारकस्यापि सतः कार्मणकाययोगोऽस्त्येव । अथोच्येत, गृह्यमाणं गृहीतमिति निश्चयनयवशात्प्रथमसमयेऽप्यौदारिकादिपुद्गला गृह्यमाणा गृहीता एव, ततो द्वितीयादिसमयेष्विव तदानीमप्यौदारिकमिश्रकाययोग इति, तदेतदयुक्तम् , यतो यद्यपि तदानीमौदारिकादिपुद्गला गृह्यमाणा अपि गृहीता एव तथाऽपि न तेषां गृह्यमाणानां स्वग्रहणक्रियां प्रति करणरूपता येन तन्निबन्धनो योगः परिकल्प्येत, किन्तु कर्मरूपतैव, निष्पन्नरूपस्य सत उत्तरकालं करणभावदर्शनात्, न हि घटः स्वनिष्पादनक्रियां प्रति कर्मरूपता करणरूपतां च प्रपद्यमानो दृश्यते । द्वितीयादिसमयेषु तु तेषामपि प्रथमसमयगृहीतानामन्यपुद्गलोपा
RECRAKASHANKAkass
For Private And Personal Use Only