________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीतिप्रकरणम्॥१७॥
AKACANCIGACCES
अर्थतांस्तेष्वेव योजयन्नाह
टीकाद्वयो
पेतम् ॥ (मल०) 'उपयोगाः' प्रागनिरूपितशब्दार्था द्वादश भवन्ति । किंविशिष्टाः ? इत्याह-'जियलक्खण' इति प्राकृत-14 मत्वाद्विभक्तिलोपः, जीवस्यात्मनो लक्षणं, लक्ष्यते ज्ञायते तदन्यव्यवच्छेदेनेति लक्षणं असाधारणं स्वरूपम्, अत एवोक्त-|
मन्यत्र-"उपयोगलक्षणो जीवः" इति । ते च द्विधा, साकारा अनाकाराश्च । तत्राकारः प्रतिवस्तुप्रतिनियतो ग्रहणप-1 रिणामरूपो विशेषः “आगारो उ विसेसो" इतिवचनात् , सहाकारेण वर्तन्त इति साकाराः, यथोक्ताकारविकलास्त्व-I नाकाराः। तत्र साकाराः पञ्चविधं ज्ञानं मतिश्रुतावधिमनःपर्यायकेवललक्षणम् , अज्ञानत्रिक मत्यज्ञानश्रुताज्ञानविभङ्गरूपम् , 'इतिः' परिसमाप्ती, एतावन्त एवाष्टौ साकारा उपयोगा न त्वन्ये इति । चत्वारि दर्शनानि चक्षुरचक्षुरवधिकेवल-13 दर्शनलक्षणान्यनाकारा उपयोगाः। अमूनि च ज्ञानान्यज्ञानानि दर्शनानि च मार्गणास्थानभेदाभिधानावसरे सप्रपञ्च व्याख्यातानीति नेह भूयो व्याख्यायन्ते ॥४२॥
अथैतान् मार्गणास्थानेषु योजयन्नाहमणुयगईए बारस, मणकेवलदुरहिया नवन्नासु।थावरइगिबितिइंदिसु, अचक्खुदंसणमनाणदुगं ॥४३॥
(हारि०) व्याख्या-मनुष्यगती द्वादशोपयोगा इति प्रक्रमः । तथा मनःपर्यवज्ञानकेवल द्विकरहिता ॥५५॥ इति द्वन्द्वगर्भस्तत्पुरुषः, नवोपयोगाः 'अन्यासु' मनुष्यगत्युद्धरितासु सुरनारकतिर्यग्गतिषु । इत्युक्ता गतिपूपयोगाः । इत इन्द्रियादिषु तान् प्रतिपादयन्नाह-थावरइगिवितिइंदिसु' इति “गइईदिए य काए"
For Private And Personal Use Only