SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मान्तिमरूपं सत्या असत्यामृषा च भाषा, शेषस्य मनोद्विकस्य वाद्विकस्य चासंभवाच्छद्मस्थविरहितत्वात् । औदारिककाययोगः सयोग्यवस्थायां तस्यामेव चावस्थायां समुद्धातगतस्य कार्मणौदारिकमिश्रलक्षणयोगद्वयसंभव इति ॥ ३८ ॥ थीवेअ १ न्नाणो ४ वसम ५ अजय ६ सासण ७ अभव ८ मिच्छेसु ९ । तेरस मण १ व २ मणनाण ३ छेय ४ सामइय ५ चक्खुसु ६ य ॥ ३९ ॥ ( हारि०) व्याख्या -स्त्रीवेदे १ मत्यज्ञाने २ श्रुताज्ञाने ३ विभङ्गज्ञाने ४ औपशमिकसम्यक्त्वे ५ 'अजय' इति अविरतसम्यग्दृष्टिगुणस्थानके ६ सासादने ७ अभव्ये ८ मिध्यादृष्टिगुणस्थान के ९, अत्र इन्द्रः, आहारकद्विकवर्जास्त्रयोदश योगा भवन्त्येतेषु नवसु स्थानेषु चतुर्दशपूर्वरत्वाभावेनाहारकद्विकाभावो भावनीयः । तद्यथा - मनोयोगे १ वाग्योगे २ मनःपर्यायज्ञाने ३ छेदोपस्थापनीयसंयमे ४ सामायिकसंयमे ५ 'चक्खुसु' इति चक्षुर्दर्शने च ६ द्वन्द्वः, चशब्दः समुच्चये, न केवलं प्राक्तनपद्नवके त्रयोदश योगाः, किन्तु मनोयोगादिपदपङ्के चात्रापर्यातकाभावादौ दारिकमिश्रकार्मण काययोगवर्जत्रयोदशयोगा भदन्तीति । अत्रायं गर्भार्थ :- इह वर्जनीययोगद्वयं द्वयोरपि पदकदम्बयोर्भिन्नं भिन्न भिन्नविभक्तिनिर्देशादे वैतदर्थमेव तन्मध्ये त्रयोदशशब्दस्य प्रक्षेपो विहितः । वर्जनीययोगद्वयं च सुज्ञानत्वात्सूत्रे सूत्रकृता नोक्तम् । इति गाथार्थः ॥ ३९ ॥ तथा For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy