SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पडशीतिप्रकरणम् ॥१६८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( मल०) वेदद्वारे स्त्रीवेदे, ज्ञानद्वारे अज्ञाने मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणे, सम्यक्त्वद्वारे औपशमिकसम्यक्त्वे, अयते विरतिहीने, सासादने, अभव्ये, मिध्यात्वे च आहारकद्विकहीनाः शेषास्त्रयोदश योगा भवन्ति । यस्वाहारकद्विकं तदेतेषु न संभवत्येव, यतस्तच्चतुर्दश पूर्वविदो भवति - "आहारदुगं जायइ चउद्दस पुबिण” इतिवचनात् । तानि चतुदशापि पूर्वाण्यज्ञानाऽयतसासादनाऽभव्य मिथ्यादृष्टिषु दूरतोऽपास्तानि । स्त्रीवेदश्चेह द्रव्यरूपो द्रष्टव्यः, न तु तथारूपाध्यवसायलक्षणो भावरूपः, तथाविवक्षणात् । एवमुपयोगमार्गणायामपि द्रष्टव्यम् । प्राक्तु गुणस्थानकमार्गणायां सर्वोऽपि वेदो भावरूपो गृहीतः, तथा विवक्षणादेव । अन्यथा तेषु यथोक्त गुणस्थानकनवक संख्यानायोगात्सयोगिकेवल्यादावपि द्रव्यवेदस्य भावात् । द्रव्यवेदश्च बाह्यमाकारमात्रम्, तत्कुतः स्त्रीवेदे चतुर्दशपूर्वाधिगमसंभवः । यत आहारकद्विकं तत्रोपपद्यते, स्त्रीणामागमे दृष्टिवादाध्ययनप्रतिषेधात्, तदुक्तम् - " तुच्छा गारवबहुला, चलिंदिया दुब्बला य धीईए । इय अइसेसज्झयणा, भूयावादो उ नो त्थीणं ॥ १ ॥” इति । 'भूयावादो' इति भूतवादो दृष्टिवादः । तथा औपशमिकसम्यक्त्वं प्रथमसम्यक्त्वोत्पादकाले उपशमश्रेण्यारोहे वा, न च सम्यक्त्वोत्पादकाले चतुर्दशपूर्वाधिगमसंभवः, तदभावाच्च कथ| माहारकद्विकभावः ? श्रेण्यारूढस्त्वाहारकं नारभत एव तस्याप्रमत्तत्वात् । आहारकारम्भकस्य तु लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादबहुलत्वात्, अत एवोक्तमन्यत्र - " आहारगं पमत्तो उप्पाएइ न अध्यमत्तो" इति । आहारकस्थितश्चोपशमश्रेणिं नारभत एव, तथास्वभावत्वात् । औदारिकमिश्रं चेह सासादनभावाभिमुखस्य कदाचित्कालकरणसंभवादवसेय मिति । 'मणवइ' इत्यादि मनोयोगे वाग्योगे मनःपर्यायज्ञाने छेदोपस्थापने सामायिके चक्षुर्दर्शने च कार्मणौदारिकमि For Private And Personal Use Only टीकाद्वयोपेतम् ॥ ॥ ५२ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy