SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा ( मल०) एकेन्द्रियेषु पश्च योगा भवन्ति । के ते ? इत्याह- 'कम्मइगउरलविउविजुयलाणि' इति कार्मणमौदारिकयुगलं वैक्रिययुगलं च । तत्र कार्मणमपान्तरालगतौ उत्पत्तिप्रथमसमये च औदारिकमिश्र मपर्याप्तावस्थायां, पर्याप्तावस्थायां त्वदारिकम् । वैक्रिययुगलं बादरपर्याप्तवायुकायिकस्य तस्य तलब्धिसंभवात् । तथा 'विकलेषु' विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियलक्षणेषु कार्मणौदारिकद्विकान्तिमभाषारूपाश्चत्वारो योगा भवन्ति । तत्र कार्मणौदारिकद्विकभावना प्राग्वत् । अन्तिमभाषा चासत्यामृषारूपा, शेषा तु भाषा तेषां न संभवत्येव, “विगलेसु असच्चमोसेव” इतिवचनात् ॥ ३७ ॥ कम्मुरलदुर्ग थावरंकाएवाए विउविजुयलजुयं । पढमंतिममणवइदुगकम्मुरलदु केवलदुगंमि ॥ ३८ ॥ ( हारि०) व्याख्या - कार्मणौदारिकद्विकम् अत्र समाहारद्वन्द्वः । तत्र कार्मणं विग्रहगतौ, औदारिकद्विकं त्वौदारिकशरीरतन्मिश्रलक्षणमिति त्रयो योगाः । क ? इत्याह- 'स्थावरकाये' पृथिव्यम्बुतेजोवनस्पतिरूपे । तथा 'वाय' वायुकायिके प्राक्तनत्रयं स्थावरकायसत्कं वैक्रिययुगलयुतमिति पञ्च योगाः वायुकाये । वैक्रिय| द्विकभावना तु प्राग्वदिति । तथा विभक्तिलोपात्प्रथमान्त्यमनोवाद्विककार्मणौदारिक द्विकमिति कर्मधारयगर्भो द्वन्द्र इति योगसप्तकं 'केवलद्विके' केवलज्ञानकेवलदर्शनरूपे भवति । तत्र सत्यासत्यामृषारूपं मनोदयम् २ एवं वाग्द्वयमपि २ । औदारिकं च सर्वदेव, कार्मणौदारिकमिश्रयं तु केवलिसमुद्धाते, उक्तं च"औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता, सप्तमपष्ठद्वितीयेषु ॥ १ ॥ कार्म For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy