SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम्॥१६॥ टीकाद्वयो|पेतम् ॥ ॥ इति अचक्षुदर्शने १५ 'छल्लेसा' इति कृष्ण १६ नील १७ कापोत १८ तैजसी १९ पद्म २० शुक्ललेश्यासु २१ भव्येषु २२ 'सम्मदुग' इति क्षायोपशमिके २३ क्षायिके २४ संज्ञिषु २५, अनापीतरेतरबन्दः, चशब्दसमुच्चये, 'सव्वे' योगा इति प्रक्रमा, पञ्चदशापि पञ्चविंशतिपदेषु भवन्ति । इति गाथार्थः ॥३६॥ तथा। (मल.) नरगतौ मनुष्यगती, इन्द्रियद्वारे पञ्चेन्द्रियेषु, कायद्वारे त्रसकायेषु, योगद्वारे काययोगे, वेदद्वारे पुंवेदनपुंसकवेदयोः, कषायद्वारे चतुर्ध्वपि कषायेषु 'मइसुओहिदुगे' इति ज्ञानद्वारे मतिज्ञाने श्रुतज्ञाने अवधिज्ञाने, दर्शनद्वारे अवधिदर्शने 'अचक्खु इति अचक्षुर्दर्शने, लेश्याद्वारे षट्स्वपि लेश्यासु, भव्यद्वारे भव्येषु 'सम्मदुग' इति सम्यक्त्वद्वारे |क्षायोपशमिके क्षायिके च, संज्ञिद्वारे संज्ञिषु, पञ्चदशापि योगा भवन्ति । सुज्ञानत्वाच्च नेह भावना क्रियते ॥३६॥ एगिदिएसु पंच उ, कम्मइगविउविउरलजुयलाणि। कम्मुरलदुगं अंतिमभासा विगलेसुचउरोत्ति ॥३७॥ । (हारि०) व्याख्या-एकेन्द्रियेषु पश्चैव योगा इति प्रक्रमः।तुशब्द एवकारार्थः, स च योजित एव । के एते? युमलशब्दस्य प्रत्येकमभिसंबन्धात्कार्मणवैक्रिययुगलौदारिकयुगलानि, अत्र तत्पुरुषगर्भो इन्द्रः। तत्र कार्मणं विग्रहगतौ वैक्रियद्विकं बादरपर्याप्तकवायुकायिकापेक्षम् । तथा कार्मणौदारिकद्रिकमिति बन्द अन्त्यभाषा चेति विकलेषु' विकलेन्द्रियेषु वित्रिचतुरिन्द्रियरूपेषु प्रत्येकं चत्वारो योगा इति प्रक्रमः । इतिशब्दो वाक्यसमाप्तौ । तत्र कामेण विग्रहगतो, अन्त्यभाषाऽसत्यामृषालक्षणा । इति गाथार्थः॥ ३७॥ ॥५०॥ * % For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy