SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HUSK सम्प्रत्येकगाथया पञ्चविंशतिपदेषु पञ्चदशापि योगान् संगृह्य लाघवार्थमाह(मल०) सुरगतौ नारकगतौ च प्रत्येकमाहारकद्विकौदारिकद्विकरहिताः शेषा एकादश मनोयोगचतुष्टय ४ वाग्योगचतुष्टय ८ वैक्रिय ९ वैक्रियमिश्र १० कार्मण ११ लक्षणा योगा भवन्ति । तत्र कार्मणमपान्तरालगतौ उत्पत्तिप्रथमसमये च वैक्रियमिश्रमपर्याप्तावस्थायाम् । पर्याप्तावस्थायां तु वैक्रियमनोयोगचतुष्टयं वाग्योगचतुष्टयं च पर्याप्तावस्थायां सुप्रतीतमेव । यदाहारकद्विकमाहारकतन्मिश्रलक्षणं तन्न संभवत्येव, तत्र सर्वविरत्यभावात् । सर्वविरतस्य हि चतुर्दशपूर्ववेदिन आहारकद्विकं संभवति-"आहारं चउदसपुषिणो उ" इत्यादिवचनप्रामाण्यात् । औदारिकद्विकमप्यौदारिकतन्मि-10 श्रलक्षणं नरतिरश्चामेवोपपद्यते, न देवनारकाणामिति । तथा तिर्यग्गतौ आहारकद्विकेन आहारकतन्मिश्रलक्षणेन ऊना| काहीनाः शेषास्त्रयोदश योगा भवन्ति । तत्रैकादश पूर्वोक्ता एव तिरश्चामपि केषांचिद्वैक्रियलब्धियोगतो वैक्रियद्विकसंभवा-18 केवलमौदारिकद्विकमधिकमिह प्रक्षिप्यते ॥ ३५ ॥ नरगइ १ पणिदि २ तस ३ तणु ४ नर ५ अपुम ६ कसाय १० मइ ११ सु १२ ओहिदुगे १३ । अचक्खु १५, छल्लेसा २१ भव २२ सम्मदुग २४ सन्निसु २५ य सवे ॥३६॥ (हारि०) व्याख्या-'नरगई' इति मनुष्यगतौ १ पञ्चेन्द्रियेषु २ असेषु ३ 'तणु' इति काययोगे ४ 'नर' इति पुरुषवेदे ५ 'अपुम' इति नपुंसकवेदे ६ 'कसाय' इति क्रोध ७ मान ८ माया ९ लोभेषु १० मतिज्ञाने ११ श्रुतज्ञाने १२ 'ओहिदुगे' इति अवधिज्ञाने १३ अवधिदर्शने १४ च । एतेषु समाहारद्वन्दः । 'अचक्खु RECE%ERSAKAC ASSESSAGESS % For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy