________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीतिप्रकरणम्
टीकाद्वयोपेतम् ॥
॥१६५॥
*43%AAAAAAAAAA
तावस्थायां प्रथमसमयादनन्तरं द्रष्टव्यम् । बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यडअनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वा औदारिकेणेति। तथा सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं परित्यजत औदारिकमपाददानस्य आहारकं वा प्रारभमाणस्याहारकमिश्रमीदारिकेण द्रष्टव्यम्। 'कम्म इग' इति कर्मेव कामेणम् । प्रज्ञादित्वादण । संसार्यात्मनां गत्यन्तरसंक्रमणे साधकतमं करणम् । 'इय जोगा' इतिः परिसमाप्तिवचनः। ततोऽयमर्थ:-एते एव योगा नान्ये इति। ननु तैजसमपि शरीरं विद्यते तद्भुकाहारपरिणमनहेतुः, यद्वशाद्वा विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पंसस्तेजोलेश्याविनिर्गमः तत्कथम् ?, उच्यते, एत एव योगा इति नैष दोषः, सदा कार्मणेन सहाव्यभिचारितया तस्य तद्हणेनैव गृहीतत्वादिति ॥ ३४ ॥
उक्ताः स्वरूपतो योगा, साम्प्रतमेतानेव मार्गणास्थानेषु चिन्तयन्नाहएक्कारस सुरनारयगईसु आहारउरलदुगरहिया। जोगा तिरियगईए, तेरस आहारगदुगूणा ॥३५॥
(हारि०) व्याख्या-एकादशेति संख्या योगा इति योगः। किंखरूपास्ते ! इत्याह-आहारकदिकौदारिकद्रिकरहिताः' दिकशन्दः प्रत्येकमभिसंबध्यते, कयोः? 'सुरनारकगत्योः' सुराणां नारकाणां चैकादश योगा इत्यर्थः । आहारकद्धिकं यतेरेव । औदारिकदिकं तु नरतिरश्चामेवेतिकृत्वेति तर्जनम् । तथा तिर्यग्गतौ त्रयोदश योगा इति प्राक्तनेन संबन्धः । कीदृशास्ते? इत्याह-आहारकबिकोना, भावना तु पूर्ववत् । इति गाथार्थः ॥ ३५ ॥
॥४९॥
For Private And Personal Use Only