________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा हे देवदत ! घटमानय गां देहि मह्यम्, इत्यादिचिन्तनपरं तदसत्यामृषा । इदं हि स्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं नापि मृषेति, इदमपि व्यवहारनयमतेन द्रष्टव्यम् निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवति अन्यथा तु सत्ये इति । 'तह वई' इति यथा मनः सत्यादिभेदाच्चतुर्धा तथा वागपि सत्यादिभेदाच्चतुर्धा । 'उरलविवाहारा' इति औदारिकवैक्रियाहारकाणि । तत्रोदारं प्रधानम् । प्राधान्यं च तीर्थकरगणधर शरीरापेक्षया द्रष्टव्यम् । ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्त गुणहीनरूपत्वादुदारमेवौदा रिकम् । विनयादित्वादिकणू । अथवोदारं सातिरेकयोजनसहस्रमानवाच्छेषशरीरपिक्षया वृहत्प्रमार्णम् । वृहत्ता चास्य वैक्रियमधिकृत्य भवधारणीयसहजशरीरापेक्षया द्रष्टव्या । अन्यथोत्तरवै क्रिये योजनलक्षमानमपि लभ्यत इति । उदारमेवौदारिकम् । प्राग्वदिकण्प्रत्ययः । तथा विविधा विशिष्टा ची क्रिया विक्रिया तस्यां भवं वैक्रियम् । तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलन्धिवशादाहियते निर्वर्त्यत इत्याहारकम् । कृद्बहुलमितिवचनात् कर्मणि वुञ् । यथा पादहारक इत्यत्र । 'मिस्सा' इति मिश्रशब्दः प्रत्येकमभिसंबध्यते । औदारिकमिश्रं वैक्रियमिश्रं आहारकमिश्रं च । तत्रौदारिकमिश्रं कार्मणेन, तच्चापर्या धावस्थायां केवलिसमुद्धीतावस्थायां वा, उत्पत्तिदेशे हि पूर्वभवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनैव केवलेनाहारयति, ततः परमोदारिकस्याप्यारब्धत्वादौदिरकेण कार्मणमिश्रेण यावच्छरीरस्य निष्पत्तिः । उक्तं च- "जोएण कम्मरणं, आहारेई अणतर जीवो । तेण पर मीसेणं, जाव सरीररस निष्कत्ती ॥ १ ॥” केवलिसमुद्वातावस्थायां तु द्वितीयषष्ठ सप्तमसयेषु कार्मणेन मिश्रमादारिकं प्रतीतमेव । तथा वैंक्रियमिश्रं कार्मणेन औदारिकेण वा । तत्र कार्मणेन मिश्रं देवनारकाणामपर्या
For Private And Personal Use Only