________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(पारमा०)"क्रियते' निष्पाद्यते 'यतः' यस्मात् 'जीवेन' प्राणिना 'मिथ्यात्वादिभिः' मिथ्यात्वाविरतिकषाययोगैः ह'चतुर्गतिगतेन' नारकतिर्यग्नरामरस्थेन । 'तेन' कारणेन 'इह' ग्रन्थे प्रवचने वा कर्म भण्यते । ननु क्रियत इति कर्म,
इत्यनया व्युत्पत्त्या सादित्वापत्तिः, ततश्चायमर्थः प्रसजति यदुत सर्वेऽपि जीवाः पूर्वमकर्माणः सन्तः पश्चात्कर्मणा युज्यन्ते, अकर्मणां च कर्मयोगे मुक्कानामपि कर्मयोगः प्राप्नोत्यकर्मत्वाविशेषात् , ततो मुक्ता अप्यमुक्ताः स्युः, इत्युक्तमनादि तत् । नन्वनावित्वेऽङ्गीक्रियमाणे पारिणामिकजीवत्वस्येव वियोगो न प्राप्नोति, इत्यत उक्तम्-'प्रवाहेण' सन्तत्या पितृ(पुत्र)संतानवत् । अनादिरपि पितृपुत्रसंतानो व्यवच्छिद्यमानो दृष्टः। तथा च सति प्राकृतं निर्जरयति विपाकोदयादिभिः, नवीनं चार्जयति मिथ्यात्वादिभिः । इति गाथार्थः॥२॥
संप्रति मुकुलितस्यैव कर्मणश्चातूरूप्यमाहतस्स उ चउरो भेया, पगईमाईउ हुंति नायवा । मोयगदिट्टतेणं, पगईभेओ इमो होई ॥३॥ ___ व्याख्या-तस्य तु' पुनः कर्मणः प्राक्प्रतिपादितस्य चत्वारो भेदाः सामान्येन । के ते? इत्याह-'प्रकृत्यादयः' प्रकृतिरादौ येषां ते प्रकृत्यादयः, आदिशब्दात्स्थित्यनुभागप्रदेशबन्धा गृश्यन्ते । भवन्ति 'ज्ञातव्याः' अवबोडव्या: 'मोदकदृष्टान्तन' लड़कोदाहरणेन । तथाहि-लड्डुकस्य प्रकृतिः कणिक्कागुडायः १, स्थितिः सप्ताहपक्षादिका २, अनुभाग इयता भागेन कणिका, इयागेन गुडः, इयच्च घृतं, शुण्ठ्यादि चैतत्परिमा
१-"ऽपि" इत्यपि । २ व्याख्याकारेण तु "इमो सुणह" इति पाठानुसारेण व्याख्यातम् । ३ “यथाहि" इत्यपि ॥
For Private And Personal Use Only