________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाकः
%*99*
पेतः
**
कर्मविपाकं वक्ष्ये इत्युक्तम्, अतः कर्मणः शब्दव्युत्पत्तिप्रतिपादनपुरःसरं स्वरूपं निरूपयति
टीकाद्वयोकीरइ जओ जिएणं, मिच्छत्ताईहिँ चउगइगएणं । तेणिह भण्णइ कम्मं, अणाइयं तं पवाहेणं ॥२॥ __ अस्या व्याख्या-"क्रियते' निष्पाद्यते 'यतः' यस्मात्कारणात् 'जीवेन' प्राणिना, कै? “मिथ्यात्वादिभिः' मिथ्यात्वमादिर्येषां ते मिथ्यात्वादयः । तत्र मिथ्यात्वमतत्त्वेषु तत्त्वाभिनिवेशः । आदिशब्दाद्विरतिप्रमा-10 दकषायाज्ञानादयो गृह्यन्ते । क (केन) क्रियते? 'चतुर्गतिगतेन नारकतिर्यनरामरभवान्तर्गतेन, तेन'कारणेन 'इह'मवचने लोके वा 'भण्यते' उच्यते कर्म । न विद्यते आदिर्यस्य तदनादि, अनायेवानादिकम् । खार्थे कः । 'प्रवाहेण' सन्तत्या एकभवापेक्षया सादि, प्रवाहापेक्षया पुनरनादि । यदि प्रवाहापेक्षयाऽपि सादि स्यात्तदा 'जीवानां पूर्व कर्मवियुक्तत्वमासीत् पश्चादकर्मकस्य जीवस्य कर्मणा सह संयोगः सञ्जातः, एवं च सति मुक्ता-16) नामपि कर्मयोगः स्यात्, अकर्मकत्वाविशेषत्वात्ततश्च मुक्ता अमुक्ताः स्युः । न चेदं कस्यचिदिष्टम्, इष्टौ वा है प्रत्यक्षागमविरोधस्तस्मात्स्थितमेतत् अनादिर्जीवस्य कर्मणा सह संयोगः। नन्वनादिसंयोगे कथं वियोगः कर्मणा जीवस्य स उच्यते, अनादिसंयोगेऽपि वियोगो दृष्टः, सुवर्णोपलवत् । तथाहि-सुवर्णपाषाणानां यद्यप्यनादिः संयोगस्तथाऽपि तथाविधनरे(रसे)न्द्रादिसद्भावे धमनादिना किवियोगो दृष्टः । एवं जीवस्या
॥३ ॥ प्यनादिकर्मयोगयुक्तस्य ज्ञानदर्शनचारित्रध्यानानलादिभिर्वियोगः सिद्धः । इति गाथार्थः ॥२॥
प्रागभिहितस्यैव कर्मणः स्वरूपभेदानाह
CANCCCASOAMROOO
****
For Private And Personal Use Only