SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रियत इति कर्म, इमां व्युत्पत्तिमाश्रित्य कौशब्दप्रवृत्तिः, जीवस्य च कर्मणा साईमनादिसंयोगोड-18 भिधीयते तत्कथमिदमविरोधि ? इत्याह (पारमा० ) तत्र वीरमिति विशेष्यम् । तं नत्वा कर्मविपाकं वक्ष्ये, इति संबन्धः। शेषतीर्थकृतामपि भावमङ्गलत्वे साधारणे सत्यासन्नोपकारित्वादस्य नमस्कारः। कीदृशं वीरम् ? कर्माण्येव जीवचन्द्रमसः स्वभावशुद्धस्य कलुपत्वापादनेन कलङ्कः, स व्यपगतोऽस्येति व्यपगतकर्मकलङ्कः । एतेन घातिकर्मविलयनप्रतिपादनेन भगवतः स्वस्वरूपापत्तिरुक्ता, अत एव कर्मगतिकुशलमिति विशेषणं सुघटम् ।कर्मणां गतिः परिणतिः, तत्र कुशलं विज्ञम् । नहि विमलकेवलं विना कोऽपि कर्मगति परिच्छेत्तुमलम् । यदुक्तम्-"जीवाण गई कम्मा-ण परिणई पुग्नलाण परियट्टो । मुत्तूण जिणं तह जिण-मयं च को जाणिलं तरइ॥१॥" एवं च शास्त्रादौ भावमङ्गलं नमस्कारं कुर्वता व्याख्यानान्यपि सूचितानि । तथाहि-कर्मविपाकं वक्ष्ये, इत्यनेनाभिधेयाभिधानम् । गुरूपदिष्टम् , इत्यनेन गुरुपर्वक्रमलक्षणसंबन्धाभिधायिना स्वमनीषिकापरिहारोपदर्शनम् । यथा सुधर्मस्वामिना जम्बूस्वामिनः, इत्यादिक्रमेण यावन्मद्गुरुणा ममोपदिष्ट, न सु स्वबुद्धिवैभवोद्भावितमिति । 'समासेन' संक्षेपेण, इत्यनेन संक्षेपरुचिश्रोतृप्रवर्तनम् । नमस्कारश्च चतुरतिशयोपेतस्य भवति, ते चेत्थमत्र भावनीयाः। तथाहि-आद्यपदेनापायापगमातिशयः प्रतिपादितः । अपायभूतानि हिघातिकर्माणि, तत्प्रक्षये च ज्ञानातिशयोऽवश्यंभावी, स च कर्मगतिकुशलं, इत्यनेनोक्तः । तद्वतश्च प्रायेण वचनातिशयः स्फुट एव । एतदुपेतच भवत्येव देवदानवमानवमाननीयः, इति वचनातिशयपूजातिशयावाक्षिप्तौ, इति चतुरतिशयोपेतत्वम् । इति गाथार्थः ॥१॥ ANNAROACRECARRORE For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy