________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाक:
*%
॥२॥
'कर्मविपाक' कर्मणां विपाकोऽनुभवः कर्मविपाकस्तम् । कथंभूतम् ? 'गुरूपदिष्टं गुरुभिरुपदिष्टो गुरूपदिष्टो टीकालयो. गुरुकथितस्तम् । कथं वक्ष्ये ? 'समासेन' संक्षेपेण, इति गाथाऽक्षरार्थः। भावार्थस्त्वयम्-व्यपगतकर्मकलङ्कम्, पेतः॥ इत्यनेनापायापगमातिशय उक्तः। वीरं नत्वा, इत्यनेन स्तोतव्यसंपत्पूर्वको नमस्कारोऽभिहिताकर्मगति-४ कुशलम्, अनेन तु स्तोतव्यस्यैव ज्ञानातिशयः प्रतिपादितः । कर्मविपाकम् , इत्यनेन त्वभिधेयम् । गुरूपदिष्टम् , पुनरनेनावयवेन शाखस्य पारतन्त्र्यमाह गुरुपर्वक्रमलक्षणसंबन्धकम् । समासेन, इत्यनेन पुनः पदेन प्रयोजनाभिधानम् , 'व्यासाभिधानात्समासाभिधानं प्रयोजनम्' इत्युक्तेः। कर्मविपाकार्थोऽभिधेयः । अभि-४ धानं तु इदमेव प्रकरणम् । अभिधानाभिधेयलक्षणश्च संवन्धः । इति गाथाभावार्थः ३ । पदविग्रहस्तु पदार्थ दर्शयद्भिर्दर्शित एच ४। वीरमित्यनेनैव स्तोतव्यसंपदोऽभिहितत्वात् किमर्थं शेषपदोपन्यासः इति चालना ५। प्रत्यवस्थानमाह-वीर इत्येतावन्मात्रे कृते नानाविधवीरप्रसङ्गः स्यात् । तद्वयुदासार्थ व्यपगतकर्मकलङ्कमित्याह, तर्हि व्यपगतकर्मकलङ्कमित्येतदेवास्तु किं शेषपदैः ? इत्यत्राह-कैश्चिद्व्यपगतकर्मकलकोऽप्यसर्वज्ञ इष्यते किञ्चिज्ज्ञत्वात्, तद्व्यवच्छेदार्थ कर्मगतिकुशलं सर्वज्ञत्वाभिधायक पदमाह, तेन भाववीरं अशेषकल्मषध्वान्तरहितं सर्वशं सर्बदर्शिनमित्यभिहितं भवति । ननु किमन्यैः कर्मविपाको नाभिहितः येनाभिधीयते भवता कर्मविपाकः ? इत्यत्रोच्यते-उक्तोऽन्यैः किन्तु व्यासेन, अत्र तु समासेन । इति गाथासमुदायार्थः॥१॥
%8%A
AR
For Private And Personal Use Only