________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SRIGANGACASESAMACHAR
इति रूपम् । तस्यार्थः-विराजते शोभते प्रकाशते वा वीरः। 'शूर वीर विक्रान्ती' इत्यस्य वा । तत्रार्थः-महाविक्रान्तोऽपरवादिशत्रुजयात्, परीषहाद्यक्षोभ्यत्वादा। ईर गतिप्रेरणयोः' इत्यस्य वा विपूर्वस्याचप्रत्यये रूपम् । तस्य पुनरयमर्थः-विशेषेण ईरयति कर्म गमयति याति वा शिवमिति कृत्वा वीरः, गौणं नाम भगवतः । अर्थव्युत्पत्त्यनुसारेणान्येऽप्यर्थाः सन्ति, अतस्तेऽप्यवबोद्धव्याः । तथा चोक्तम्-"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्मादीर इति स्मृतः॥१॥” 'णम् प्रहत्वे शब्दे [च] इत्यस्य धातोः क्त्वान्तस्य नत्वेति रूपम् । 'नत्वा' प्रणम्य 'वोच्छं' वक्ष्ये अभिधास्ये, किंभूतं वीरम् ? इत्याह'व्यपगतकर्मकलङ्क' वि-अप-पूर्वस्य गमेः क्तान्तस्य व्यपगतमिति रूपम् । कमैव कलङ्घ कर्मकलङ्कम् । यदा प्रथमातत्पुरुषस्तदाऽयमर्थ:-कलई दूषणं जीवखभावस्य कमैवाशुभपरिणामपरिणतं कलकं कर्मकलङ्कम् । विशब्दो विशेषार्थः, अपशब्दोऽभावार्थः, विशेषेणापगतं कर्मकलङ्क यस्यासौ व्यपगतकर्मकलकोऽन्यप-1& दार्थः, अतस्तम् । यदा पुनर्बन्धः, कर्म च कलङ्गं च कर्मकलङ्के, तदा कर्म ज्ञानावरणीयादि प्रतीतं, कलङ्क बाह्याभ्यन्तरभेदभिन्नम् । तत्र बाह्यमकीर्त्यादि, आभ्यन्तरमशुभाध्यवसायादि। ते [विशेषेण] अपगते अतीते यस्यासौ व्यपगतकर्मकलङ्कः, अतस्तम् । ननु गमेर्गत्यर्थत्वात्कथमभावार्थः स्यात् ? उच्यते, विअपपूर्वो गमिः स्वभावात् अनेकार्थत्वादा धातूनामभावार्थोऽपि दृष्टः । तथा-'कर्मगतिकुशलं' इति कर्मणां गतिः परिच्छित्तिः, तत्परिणामो वा कर्मगतिः, तत्र कुशलो निपुणः सर्वथा तत्परिच्छेदकः । तं नत्वा वक्ष्ये
For Private And Personal Use Only