________________
Shri Mahavir Jain Aradhana Kendra
कर्मवि
पाकः
॥ १॥
57এ%%শ-
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्रेष्टदेवतास्तवाभिधायिकां प्रेक्षापूर्वकारिप्रवृत्त्यर्थं विघ्नविनायकोपशान्तये शिष्टसमयप्रतिपालनाय च प्रयोजनाभिधेयसंबन्धगर्भा सूत्रकार आद्यामिमां गाथामाह
( श्रीमत्परमानन्द सूरिविरचितवृत्तिः )
निःशेषकर्मोदयमेघजालमुक्तो दिनाधीश इवोग्रतेजाः । प्रदर्शिताशेषपदार्थसार्थो, मुदेऽस्तु नः श्रीजिनवर्द्धमानः ॥ १ ॥ इह हि सन्तः संसारसागरतरणतरणिकल्पं जिनशासनमवाप्य सकलजन्मजीवितसारं परोपकारं मन्यन्ते । स च संसारिणां सकलामङ्गलनिलय कर्मस्वरूपनिरूपणात्तदुन्मूलनप्रवृत्तानां सिद्धो भवतीत्यतस्तत्स्वरूपनिरूपणप्रवणं प्रकरणं चिकीर्षुर्गर्गमहर्षिर्मङ्गलाभिधेयसंबन्धाभिधानबन्धुरां गाथामाह
ववगयकम्मकलंकं, वीरं नमिऊण कम्मगइकुसलं । वोच्छं कम्मविवागं, गुरूवइडं समासेणं ॥ १ ॥
अस्या व्याख्या - सा च संहितादिक्रमेण - "संहिता च पदं चैव, पदार्थः पद्विग्रहः । चालना प्रत्यव - स्थानं, व्याख्या तन्त्रस्य षड़िधा ॥ १ ॥ तत्रास्खलित पदोचारणं संहिता । सा चेयम् — व्यपगतकर्मकलङ्क, वीरं नत्वा कर्मगतिकुशलं । वक्ष्ये कर्मविपार्क, गुरूपदिष्टं समासेन १ । पदानि पुनः सैव संहिता विच्छेदेनोच्चार्यमाणा २ । पदार्थस्त्वयम् - वीरं नत्वा वक्ष्ये कर्मविपाकम्, इति क्रियाकारक संबन्धः । विराजनाद्वीरः । विपूर्वस्य 'राज दीप्तौ' इत्यस्य धातोः औणादिडच्प्रत्ययान्तस्य 'अन्येषामपि' इति दीर्घत्वे वीर
For Private And Personal Use Only
टीकाद्वयोपेतः ॥
॥ १ ॥