________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ अर्हम् ॥
॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः ॥
श्वेताम्बराग्रण्य श्रीमद्गर्गमहर्षिविरचितः कर्मविपाकाख्यः प्रथमः कर्मग्रन्थः ।
पूर्वाचार्यकृत व्याख्यया श्रीमत्परमानन्दसूरिविरचितवृत्त्या च समेतः ।
Acharya Shri Kailassagarsuri Gyanmandir
(पूर्वाचार्यकृत व्याख्या)
रागादिवर्गहन्तारं प्रणेतारं सदागमम् । प्रणौमि शिरसा देवं, वीरं श्रीजिनसत्तमम् ॥ १ ॥ स्तौमि देवी सदा भक्त्या, जिनाऽऽस्याम्बुजवासिनीम् । यत्प्रसादादरं काव्यं, कवीनां जायतेऽमलम् ॥२॥ h: शक्तो विवरीतुं स्यात्, सूत्रं जिनमतेऽखिलम् । अनन्तगमपर्यायं, मतेर्मान्याचं बालिशः ॥ ३ ॥ गुरुपादप्रसादेन, तथाऽपि जडबुद्धिना । क्रियते विवरणं किञ्चिदु, विपाके कर्मसंज्ञके ॥ ४ ॥ preranaaraar ग्राह्यं, मदीयं कृतिभिः सदा । सतामभ्यर्थना येन, न ( यन्न) कदाचिन्निष्फला भवेत् ॥५॥ १ “विवरीतुं समर्थः स्यात्कः (कः) सूत्रं जिनमतेऽखिलम्" इत्यपि । २ – “सुबालिशः” इत्यपि ॥
For Private And Personal Use Only