SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAKESARKARI तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम्, विशिष्टं कुर्वन्ति तदिति च निपातनादैक्रियम्, तदेव कायस्तेन योगो वैक्रियकाययोगः २ तथा चतुर्दशपूर्वविदा तथाविधकार्योत्पत्ती विशिष्टलब्धिवशादाहियते निर्वर्त्यत इत्याहारकम् , अथवा आहियन्ते गृह्यन्ते तीर्थंकरादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेनेत्याहारकम्, तदेव कायः तेन योग आहारककाययोगः ३ । तथा औदारिक मिश्रं यत्र कार्मणेनेति गम्यते स भवत्यौदारिकमिश्रः। उत्पत्तिदेशे हि अनन्तरागतो जीवः प्रथमसमये कार्मणेनैवाहारयति ततः परमौदारिकस्यारब्धवादीदारिकेण कार्मणमिश्रेणाहारयति, उक्तं च नियुक्तिकृता-"जोएण कम्मएणं, आहारेई अणंतरं जीवो । तेण परं मीसेणं, जाव सरीरस्स निप्फत्ती ॥१॥" औदारिकमिश्रश्चासौ कायश्च तेन योग औदारिकमिश्रकाययोगः४।तथा वैक्रियं मिश्रं यत्र कार्मणेनेति गम्यतेस वैक्रियमिश्रः। अयं तु देवनारकाणामपर्याप्तावस्थायां मन्तव्यः। शेषस्तु वाय्वादीनामौदारिक (वैक्रिय) मिश्रो न ग्राह्योऽप्रधानत्वादिति । तथाऽऽहारकं मिश्रं यत्रौदारिकेणेति गम्यते स आहारकमिश्रा, स एव कायस्तेन योग आहारकमिश्रकाययोगः । यदा सिद्धप्रयोजनश्चतुर्दशपूर्वविदाऽऽहारकंपरित्यज्यौदारिकोपादानाय प्रवर्तते तदौदारिकेण मिश्रमाहारकं प्राप्यते । बहुव्यापारत्वेन प्रधानत्वादाहारकेण व्यपदेश इति भावः । अन्ये त्वस्यापि प्रारम्भकाल एवाहारकमिदं प्रतिपद्यन्ते, प्रारभ्यमाणत्वेनाहारकस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति हृदयम् ६ तथा कर्मैव कार्मणः, अथ कर्मणो विकारः कार्मणः, उक्तं च-“कम्मविवागो 4-65-50-SALACKMAN For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy