________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीतिप्रकरणम्
॥१६॥
4BCCCECAREERA
न्तनेन वा हितं सत्यम् । अस्ति जीवः सदसद्रूपो वा देहमात्रव्यापका, इत्यादि यथावस्थितवस्तुविकल्पन-टीकाद्वयो। परम् । तथा तद्विपरीतं मृषा । नास्ति जीव एकान्तसद्रूपो वेत्यादि । यथावस्थिताऽयथावस्थितवस्तुचिन्तन
पेतम् ॥ परं मिश्रम् । इह धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमिदमिति यदा विकल्पयति | तदा प्रस्तुतमिश्रविषयता । इदं हि विकल्पनमत्राशोकवृक्षाणां सद्भावात्सत्यम्, अन्येषामपि धवादीनां तत्र सद्भावादसत्यमिति मिश्रम् । न विद्यते सत्यं यत्र तद्भवत्यसत्यम्, न विद्यते मृषा यत्र तद्भवत्यमषम् , असत्यं च तदमृषं चेति कृताकृतादिवत्कर्मधारयः, आमश्रणप्रज्ञापनादिरूपम्, यथा हे देवदत्त ! घटमानय, धर्म कुरु, भिक्षां देहि इत्यादि । एवंविधं किम् ? इत्याह-'मणं' इति मनश्चित्तं, तथाशब्दो वाक्योपक्षेपार्थः । लिङ्गव्यत्ययेन वाकैवंविधैव चतुर्भदेत्यर्थः । तथा 'उरलविउव्वाहारा' इति सूचकत्वा-1 त्सूत्रस्यौदारिकवैक्रियाहारककाययोगाः । तथा'मीसा' इति एत एवौदारिकादयो मिश्रास्त्रयः। 'कम्मइग' इति प्राकृतत्वात्कार्मणकाययोग इति सप्तविधकाययोगः । तत्रोदारं प्रधान, उदारमेवौदारिकम् । प्राधान्यं चेह तीर्थकरगणधरशरीरापेक्षया वेदितव्यम् । ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात् । अथवा उदारं सातिरेकयोजनसहस्रमानवाच्छेषशरीरेभ्यो वृहत्प्रमाणम्, उदारमेवौदारिकम् । वृहत्त्वं चास्य भवधारणीयसहजशरीरापेक्षया मन्तव्यम् । अन्यथा हि उत्तरवैक्रियं लक्षयोजनमानमपि लभ्यत इति ।
॥४७॥ औदारिकमेव चीयमानत्वात्कायः, तेन सहकारिकारणभूतेन तद्विषयो वा योग औदारिककाययोगः १
APRICORIA
For Private And Personal Use Only