SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् टीकाइयोपेतम् ॥ ॥१६२॥ PHONESSIONALSENSEX (मल० ) वेदकं क्षायोपशमिकं तस्मिन् , तथा क्षायिके औपशमिके च सम्यक्त्वे यथासंख्यं चत्वारि एकादशाष्टौ च गुणस्थानकानि भवन्ति । कानि पुनस्तानि ? इत्यत आह–'तुर्यादीनि चतुर्थादीनि । तत्र क्षायोपशमिकसम्यक्त्वेऽविरतसम्यग्दृष्ट्यादीन्यप्रमत्तपर्यन्तानि चत्वारि गुणस्थानकानि भवन्ति, क्षायिके त्वविरतसम्यग्दृष्ट्यादीन्ययोगिपर्यन्तान्येकादश गुणस्थानकानि भवन्ति, औपशमिकसम्यक्त्वे पुनरविरतसम्यग्दृष्ट्यादीन्युपशान्तमोहपर्यन्तान्यष्टाविति । 'सेसतिगे सहाणं' इति शेषत्रिके मिथ्यादृष्टिसासादनमिश्रलक्षणे स्वस्थानं स्वं स्वमेव गुणस्थानकं भवति । तथा संज्ञिषु चतुर्दशापि गुणस्थानकानि भवन्ति, सयोग्ययोग्यवस्थायामपि द्रव्यमनोऽपेक्षया संज्ञित्वाभ्युपगमात् । 'असण्णिसु दो' इति असंशिषु द्वे मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके भवतः। तत्र सासादनसम्यग्दृष्टिगुणस्थानकं लब्धिपर्याप्तकानां करणा| पर्याप्तावस्थायां द्रष्टव्यम् ॥ ३२॥ आहारगेसु पढमा, तेरसऽणाहारगेसु पंच इमे। पढमंतिमदुगअविरय, गइयाइसु इय गुणहाणा ॥३३॥ (हारि०) व्याख्या-आहारकेषु प्रथमानि त्रयोदश गुणस्थानानि भवन्ति । तथाऽनाहारके पश्चेमानि वक्ष्यमाणानि । तान्येवाह-'पढमंतिमदुगअविरय' इति द्विकशब्दस्य प्रत्येकमभिसंबन्धात्प्रथमद्रिकान्त्यद्विकाविरतानीति तत्पुरुषगर्भो इन्द्रः । तत्र मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिगुणस्थानकानि त्रीणि विग्रहगतौ सयोगिकेवलिगुणस्थानकम् । समुद्धाते चतुर्थपञ्चमतृतीयसमयेषु सिद्धान्तप्रसिद्धेषु अयोगिकेवलिगुणस्थानं त्वीषद्हखाक्षरपञ्चकोद्गिरणमात्रं कालं समस्तगुणस्थानकमित्यर्थः । उक्तं च-"विग्गहगइमा ॥४६॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy