SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CLASSAGAR वेयगखइगउवसमे, चउरो एक्कारसह तुरियाई । सेसतिगे सहाणं, सन्निसुचउदस असपिणसु दो ॥३२॥ (हारि०) व्याख्या-वेदकं क्षायोपशमिकं तच्च क्षायिकं चौपशमिकं चेति समाहारद्वन्दः । तत्र यथासंख्येन चत्वार्येकादशाष्टौ गुणस्थानानि भवन्ति। किमाद्यानि? इत्याह-विभक्तिलोपात्'तुर्यादीनि चतुर्थादीनि । तत्र वेदके विरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तयतिनामानि चत्वारि गुणस्थानानि । क्षायिके त्वविरतसम्यग्दृष्ट्यादीन्ययोगिकेवलिगुणस्थानकान्तान्येकादश । औपशमिकेविरतसम्यग्दृष्ट्याद्युपशान्तमोहान्तान्यष्टौ गुणस्थानकानि भवन्ति । तथा 'शेषत्रिके' मिश्रसासादनमिथ्यादृष्टिरूपे 'स्वस्थानं' खकीयपदं भवति । अयमर्थः-सम्यग्मिथ्यात्वे सम्यग्मिथ्यादृष्टिगुणस्थानकम् । एवं सासादने सासादनम् , मिथ्यावे मिथ्यात्वमिति । तथा 'संज्ञिषु' मनोविज्ञानयुक्तेषु चतुर्दश गुणस्थानकानि भवन्ति । नन्वत्र चतुर्दशगुणस्थानकभणनेन सामान्येन केवल्यपि संज्ञित्वेन गृहीतः, तत्र सयोगिनं प्रति संज्ञित्वभावना द्रव्यमन:समाश्रयणेन भवद्भिः प्रागुक्ता अयोगिनं प्रति सा कथं बुध्यते?, अत्रोच्यते, पूर्वावस्थामाश्रित्य द्रष्टव्येति संभाव्यते, यथा दृष्टिवादोपदेशिकी संज्ञा गृह्यते।तथा असंज्ञिषु' मनोविज्ञानरहितेषुद्धे मिथ्यात्वसासादनलक्षणगुणस्थानके भवतः। इति गाथार्थः ॥ ३२॥ । इति सम्यक्त्वद्वारे सपतिपक्षे संज्ञिबारे चोक्तानि गुणस्थानानि । अथ पर्यन्तवांहारकद्वारे सप्रतिपक्षे| तानि प्रतिपादयन् गत्यादिषु गुणस्थानकसमर्थनां दर्शयन्नाह ECACCOLOCACANCACKASSA-- For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy