SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षडशीति प्रकरणम् ॥१६१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'लेश्यासु' तिसृषु कृष्णनीलकापोताभिधानासु । तथा सप्त प्रथमानि मिथ्यादृष्ट्यादीनि अप्रमत्तयत्यन्तानि । कयोः ? इत्याह- 'दुसु' इति द्वयोर्लेश्ययोस्तैजसीपद्माभिधानयोः । तथा 'शुक्लायां' शुक्ललेश्यायां प्रथमानि त्रयोदश गुणस्थानानि । प्रथमशब्दश्चतुर्ष्वपि पदेषु योज्यते । तथा भव्ये सर्वाणि गुणस्थानानि । तथाऽभव्ये एकं मिध्यादृष्टिगुणस्थानकम्, अत्र जातावेकवचनम् । इति गाथार्थः ॥ ३१ ॥ इति दर्शनादिपद्ये मार्गितानि गुणस्थानानि, साम्प्रतं सम्यक्त्वसंज्ञिपदद्वये तान्येवाह ( मल० ) अचक्षुर्दर्शने चक्षुर्दर्शने च प्रथमानि मिथ्यादृष्ट्यादीनि क्षीणमोहपर्यन्तानि द्वादश गुणस्थानकानि भवन्ति । भावना सुज्ञाना। तथा प्रथमासु तिसृषु 'लेश्यासु' कृष्णनीलकापोतरूपासु प्रथमानि मिथ्यादृष्टादीनि प्रमत्तान्तानि षड | गुणस्थानकानि भवन्ति । कृष्णनीलकापोतलेश्यानां हि प्रत्येकमसंख्येय लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दसंक्लेशेषु तदध्यवसायस्थानेषु तथाविधसम्यक्त्व देशसर्वविरतीनामपि सद्भावो न विरुध्यते । तदुक्तम् - सम्यक्त्वदेशविरतिसर्वविरतीनां प्रतिपत्तिकाले शुभलेश्यात्रयमेव भवति । उत्तरकालं तु सर्वा अपि लेश्याः परावर्तन्तेऽपीति । तथा 'द्वयोः 'तेजः पद्मरूपयोर्लेश्ययोः सप्त गुणस्थानकानि भवन्ति । तत्र षट् पूर्वोक्तान्येव, सप्तमं त्वप्रमत्तसंयतगुणस्थानकम् । मिथ्यादृष्ट्यादीनां त्वेते लेश्ये जघन्यात्यन्ताविशुद्धतदध्यवसायस्थानापेक्षया द्रष्टव्ये । एवमुत्तरत्रापि भावनीयम् । तथा 'शुक्लायां' शुक्ललेश्यायां प्रथमानि त्रयोदश गुणस्थानकानि भवन्ति न त्वयोगिगुणस्थानकम्, अयोगिनो लेश्यातीतत्वात् । तथा भव्ये सर्वाण्यपि गुणस्थानकानि भवन्ति, योग्यत्वात् । अभव्ये पुनरेकमेव मिथ्यादृष्टिलक्षणं गुणस्थानकमिति ॥ ३१॥ For Private And Personal Use Only टीकाद्वयोपतम् ॥ ॥ ४५ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy