SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्याह-वचनव्यत्ययादयतयथाख्यातयोर्यथासंख्यम् । अयमभिप्राय:-अयतशब्देन गुणगुणिनोरभेदोपचारादसंयमो गृहीतः, ततोऽसंयमे प्रथमानि मिथ्यादृष्टिसासादन मिश्राविरतलक्षणानि चत्वारि गुणस्थान कानि भवन्ति । यथाख्याते तु संयमे घरमाण्युपशान्तक्षीणमोहसयोग्ययोगिकेवलिलक्षणानि चत्वारि गुण| स्थानानि भवन्ति । इति गाथार्थः ॥ ३०॥ इति संयमे सप्रतिपक्षे भणितानि गुणस्थानानि, साम्प्रतं दर्शनलेश्याभव्येषु तान्येवाह(मल.) सामायिकच्छेदोपस्थापनयोश्चत्वारि प्रमत्तादीन्यनिवृत्तिबादरपर्यन्तानि गुणस्थानकानि भवन्ति । तथा परिहारविशुद्धिके संयमे द्वे प्रमत्ताप्रमत्तयतिलक्षणे गुणस्थानके भवतो नोत्तराणि, तस्मिन् संयमे वर्तमानस्य श्रेण्यारोहप्रतिषेधात् । 'देससुहमे सर्ग' इति देशविरतौ सूक्ष्मसंपरायसंयमे च स्वकं स्वकीयं स्वकीयं यथाक्रम देशविरतिगुणस्थानक सूक्ष्मसंपरायगुणस्थानकं भवति । 'पढमचरमचउ अजयअहखाए' इति यथाक्रम अयते असंयते संयमहीने प्रथमानि मिथ्यादृष्ट्यादीन्यविरतसम्यग्दृष्टिपर्यन्तानि चत्वारि गुणस्थानकानि भवन्ति । यथाख्यातचारित्रे पुनश्चरमाण्युपशान्तमोहादीन्ययोगिकेवलिपर्यन्तानि चत्वारि गुणस्थानानि भवन्ति ॥ ३०॥ बारस अचक्खुचक्खुसु, पढमा लेसासु तिसु छ दुसु सत्त। सुक्काए तेरस गुणा, सवे भवे अभवेगं ॥३१॥ (हारि०) व्याख्या-द्वादश प्रथमानि गुणस्थानकानीति योगः।क? इत्याह-अचक्षुचक्षुषो' अचक्षुदेर्शने चक्षुदर्शने इत्यर्थः। तथा प्रथमानि मिथ्यादृष्ट्यादिगुणस्थानानि षडिति संबन्धः। कासु! इत्याह AAAAAAAAAAA For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy