________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीति'प्रकरणम्
॥१६॥
॥१॥" 'जयाइ सत्त मणनाणे' इति यतादीनि प्रमत्तयतिप्रमुखानि क्षीणमोहान्तानि सत गुणस्थानकानि मनःपर्याय-टीकाद्वयोज्ञाने भवन्ति न शेषाणि । भावना पूर्वोक्तानुसारेणावसेया। तथा 'केवलद्विके केवल ज्ञानदर्शनरूपे द्वे सयोग्ययोगिकेव- पेतम् ॥ लिलक्षणे गुणस्थानके भवतः। तथा 'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणे प्रथमानि त्रीणि मिथ्यादृष्टिसासादनमिश्रलक्षणानि गुणस्थानकानि भवन्ति । मिश्रदृष्टेश्च यद्यपि-"मीसंमी वा मिस्स" इतिवचनात् , ज्ञानव्यामिश्राण्यज्ञानानि प्राप्यन्ते न शुद्धान्यज्ञानानि, तथाऽपि तान्यज्ञानान्येव, यथावस्थितवस्तुतत्त्वनिर्णयाभावात् । अन्ये पुनराहुःयद्यपि न तदानीं यथावस्थितवस्तुतत्त्वनिर्णयस्तथाऽपि न तान्यज्ञानान्येव, सम्यग्ज्ञानलेशव्यामिश्रत्वात् । तदुक्तम्| मिथ्यात्वाधिकस्य मिश्रदृष्टेरज्ञानबाहुल्यम् , सम्यक्त्वाधिकस्य पुनः सम्यग्ज्ञानबाहुल्यमित्यादि । तन्मतमाश्रित्याह|'दो व' इति द्वे वा प्रथमे मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके भवतः । इति ॥ २९॥ सामाइयछेएसुं, चउरो परिहार दो पमत्ताई। देससुहमे सगं पढमचरमचउ अजयअहखाए ॥३०॥
(हारि०) व्याख्या-सामायिकच्छेदोपस्थापनीययोश्चत्वारि गुणस्थानानि, विभक्तिलोपात्पमत्तादीनीति सण्टङ्कः । तथा परिहारविशुद्धिके दे प्रमत्ताप्रमत्ते । तथा 'देशसूक्ष्मे' अत्र द्वन्दः, स्वकमिति प्रत्येक योज्यम् । देशे देशविरते चारित्राचारित्र इत्यर्थः, 'खक' स्वकीयं देशयति गुणस्थानकमित्यर्थः । तथा सूक्ष्म-13 |संपराये च चतुर्थचारित्रे स्वकं स्वकीयं सूक्ष्मसंपरायाभिधगुणस्थानकमित्यर्थः। तथा प्रथमं च चरमं च प्रथमचरमे, ते 'च' इति चतुष्केच प्रथमचरमचतुष्के ते भवतः, अत्र प्रथमाद्विवचनलोपो द्रष्टव्यः । कगो.
.
-
.
-
॥४४॥
बर
For Private And Personal Use Only