________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानी । यदा सासादनभावे मिश्रभावे वा वर्तते तदानीं तत्राप्यवधिदर्शनं प्राप्यत इति । यत्तु सयोग्ययोगिकेवाल.. | स्थानकद्विकं तत्र मतिज्ञानादि न संभवत्येव, तद्व्यवच्छेदेनैव केवलज्ञानस्य प्रादुर्भावात् । “नद्वंमि उ छाउमथिए नाणे" इतिवचनप्रामाण्यात् । आह, ननु यदि मतिज्ञानादीनि स्वस्वावरणक्षयोपशमभावेऽपि प्रादुर्भवन्ति ततो निःशेषतः स्वस्वावरणक्षये सुतरां भवेयुश्चारित्रपरिणामवत्तत्कथं तदानीं तेषामभावः ? आह च-"आवरणदेसविगमे, जाई विजंति मइसुयाईणि । आवरणसबविगमे, कह ताई न होंति जीवस्स ॥१॥” इति, उच्यते, इह यथा सहस्रभानोरुपचितघनपटलान्तरितस्यापान्तरालावस्थितकटकुव्याद्यावरणविवरप्रविष्टः प्रकाशो घटपटादीन् प्रकाशयति, तथा केवलज्ञानावरणावृतस्य केवलज्ञानस्यापान्तरालमतिज्ञानाद्यावरणक्षयोपशमरूपविवरविनिर्गतः प्रकाशो जीवादीन् पदार्थान् प्रकाशयति, स च तथा प्रकाशयन् मतिज्ञानमित्यादिलक्षणं तत्तत्क्षयोपशमानुरूपमभिधानमुद्वहति । ततो यथा सकलघनपटलकटकुव्याद्यावरणापगमे स तथाविधः प्रकाशः सहस्रभानोरस्पष्टरूपो न भवति, किन्तु सर्वात्मना स्फुटरूपोऽन्य एव, तथेहापि सकलकेवलज्ञानावरणमतिज्ञानाद्यावरणविलयेन तथाविधो मतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो भवति, किन्तु सर्वात्मना यथावस्थितं वस्तु परिच्छिन्दन् परिस्फुटरूपोऽन्य एवेत्यदोषः। उक्तं च-"कडविवरागयकिरणा, मेहंतरियस्स जह दिणेसस्स । ते कडमेहावगमे, न होति जह तह इमाइंपि ॥१॥" इति । अन्ये पुनराहुः-सन्त्येव मतिज्ञा
नादीन्यपि सयोगिकेवल्यादौ, केवलमफलत्वात् । सन्त्यपि तदानीं न विवक्ष्यन्ते यथा सूर्योदये नक्षत्रादीनीति । तथा हचोक्तम्-"अण्णे आभिणिबोहियणाणाईणि वि जिणस्स विजंति । अफलाणि य सूरुदये, जहेव णक्खत्तमाईणि
For Private And Personal Use Only