________________
Shri Mahavir Jain Aradhana Kendra
षडशीति
प्रकरणम्
॥१५९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वात्तज्ज्ञानानि किंचित्कलुषाण्यपि सम्यग्ज्ञानान्येव, अतोऽज्ञानत्रये द्वे एव गुणस्थानके भवतः । आहैवं तर्हि सासादनस्यापि सम्यग्दृष्टित्वेन तदवबोधस्यापि ज्ञानरूपत्वात्कथमज्ञानत्रये सासादन गुणस्थानकसंभवः ? इति सत्यमेतत्, नवरं तज्ज्ञानस्यानन्तानुबन्धिप्रथम कषायोदयेनातिदूषितत्वादज्ञानमेवेति भावः । इति गाथार्थः ॥ २९ ॥
एवं ज्ञानेषु सप्रतिपक्षेषु अवधिदर्शने केवलदर्शने च प्ररूपितानि गुणस्थानकानि, साम्प्रतं संयमे सामा|यिकादिपश्चप्रकारे देशसंयमेऽसंयमे च तानि प्रतिपिपादयिषुराह
( मल०) मतिज्ञाने श्रुतज्ञाने अवधिद्विके अवधिज्ञानदर्शन रूपे' अयतादीनि' अविरतसम्यग्दृष्ट्यादीनि क्षीणमोहान्तानि नव गुणस्थानकानि भवन्ति न शेषाणि । तथाहि न मतिश्रुतावधिज्ञानानि मिथ्यादृष्टिसासादनमिश्रेषु भवन्ति तद्भावे ज्ञानत्वस्यैवायोगात् । यत्त्ववधिदर्शनं तत्कुतश्चिदभिप्रायाद्विशिष्टश्रुतविदो मिथ्यादृष्ट्यादीनां नेच्छन्ति । तन्मतमाश्रित्याचार्येणापि तत्तेषां नेष्टम् । अथ च सूत्रे मिथ्यादृष्ट्यादीनामप्यवधिदर्शनं प्रतिपाद्यते । यदुक्तं प्रज्ञप्तौ - "ओहिदंसण अणगारोवउत्ताणं भंते! किं नाणी अन्नाणी ? गोयमा ! णाणीवि अन्नाणीवि । जइ नाणी ते अत्थेगइआ तिण्णाणी, अत्थेगइया चरणाणी । जे तिण्णाणी ते आभिणिबोहियणाणी सुयणाणी ओहिणाणी । जे चरणाणी ते आभिणियोहियणाणी सुयणाणी ओहिणाणी मणपज्जवणाणी । जे अण्णाणी ते णियमा मइअण्णाणी सुयअण्णाणी विभंगनाणी” इति । अत्र हि येऽज्ञानिनस्ते मिथ्यादृष्टय एवेति मिथ्यादृष्टीनामप्यवधिदर्शनं साक्षादत्र सूत्रे प्रतिपादितम् स एव च विभङ्ग
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ ४३ ॥