SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवन्ति, सर्वेष्वप्येतेषु यथायोगं योगत्रयस्यापि संभवात् । तथा 'वेदे' स्त्रीपुंनपुंसकलक्षणे, 'कषायत्रये' क्रोधमानमायारूपे मिथ्यादृष्ट्यादीन्यनिवृत्तिबादरपर्यन्तानि नव गुणस्थानकानि भवन्ति न शेषाणि, अनिवृत्तिबादर एव क्षीणत्वेनोपशान्तत्वेन वा शेषेषु गुणस्थानकेषु तेषामसंभवात् । 'दस य लोभे इति लोभे लोभकषाये दश गुणस्थानकानि भवन्ति । तत्र नव पूर्वोक्तान्येव, दशमं तु सूक्ष्मसंपरायगुणस्थानकम्, तत्र किट्टीकृतलोभदलिकस्य वेद्यमानत्वात् ॥ २८॥ है मइसुयओहिदुगेनव, अजयाइजयाइ सत्त मणनाणे। केवलदुगंमि दो तिपिण दो व पढमा अनाणतिगे२९ | (हारि०) व्याख्या-मतिश्रुतावधिद्विके, अन्न बन्दैकवद्भावः, तत्र मतिज्ञाने श्रुतज्ञाने अवधिज्ञाने अवधिदशनेच प्रत्येकं नव गुणस्थानानि भवन्तीति । अथ किमाद्यानि? तान्याह-'अजयाई' इति विभक्तिलोपादयतादीन्यविरतसम्यग्दृष्टिगुणस्थानकप्रभृतीनि क्षीणमोहान्तानि । तथा 'जयाइ सत्त मणनाणे' इति अत्रापि विभक्तिलोपाद्यतादीनि प्रमत्तयतिप्रमुखानि क्षीणमोहान्तानि सप्त गुणस्थानकानि मनःपर्यवज्ञाने भवन्ति । तथा 'केवल बिके' केवलज्ञानकेवलदर्शनरूपे '' सयोग्ययोग्याख्ये गुणस्थानके भवतः। तथा श्रीणि' प्रथमानि || मिथ्यादृष्टिसासादनमिश्ररूपाणि, 'दे वा प्रथमे मिथ्यादृष्टिसासादनरूपे, क? इत्याह-'अज्ञानत्रिके' मत्यज्ञानभूताज्ञानविभङ्गलक्षणे । तत्र यदभिप्रायेण त्रीणि गुणस्थानानि भवन्ति, तेषामयमाशयः-यदुत मिश्रदृष्टेव्यामिश्रज्ञानान्यप्यज्ञानान्येव यथावस्थिततत्त्वनिर्णयाभावात्, अतस्त्रीण्यपि गुणस्थानान्यत्राज्ञानत्रिके भवन्तीति । यदभिप्रायेण च दे गुणस्थानके भवतः, तेषामिदमाकूतम्-यदुत मिश्रदृष्टः किंचित्सम्यग्रूप AAAAAAAAAAAA For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy