________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीतिप्रकरणम्॥१५७॥
YEARNECTERIA
सभगा ssदेय ८ यशःकीर्ति ९ पर्याप्तक १० बादर ११ तीर्थकरो १२ चैर्गोत्राणां १३ त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः|| टीकाद्वयोअन्ये पुनराहुः-मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेदः, उदयाभावात् । उदयवतीनां हि स्तिबुकसंक्रमाभावात्स्वस्वरूपेण पेतम् ॥ चरमसमये दलिकं दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः । आनुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकतया भवापान्तरालगतावेवोदयस्तेन न भवस्थस्य तदुदयसंभवः । तदसंभवाच्चायोग्यवस्थाद्विचरमसमय एव मनुष्यानु
पूाः सत्ताव्यवच्छेद इति । तन्मतेन द्विचरमसमये त्रिसप्ततिप्रकृतीनां सत्ताव्यवच्छेदः, चरमसमये द्वादशानामिति । |ततोऽनन्तरसमये कोशबन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादेरण्डफलमिव भगवानपि कर्मसंबन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषसंभवादूर्व गच्छति । स चोर्ध्व गच्छन् ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावत एवं प्रदेशान् ऊर्ध्वमप्यवगाहमानो विवक्षितसमयाच्चान्यत्समयान्तरमस्पृशन् लोकान्ते गच्छति । तदुक्तमावश्यकचूणा"जेत्तिए जीवोऽवगाढो तावइयाए ओगाहणाए उहूं उज्जगं गच्छइ न वकं बिइयं समयं च न फुसए" इति । तत्र गतः सन् भगवान् शाश्वतं कालमवतिष्ठते । इति ॥२६॥ | तदेवमुक्तानि प्रसक्तानुप्रसक्तप्रतिपादनेन सप्रपञ्च गुणस्थानकानि । साम्प्रतमेतानि मार्गणास्थानेषु चिन्तयन्नाह
चत्तारि देवनरएसु पंच तिरिएसुचउदस नरेसु । इगिविगलेसुं दो दो, पंचिंदीसुं चउद्दस वि ॥२७॥5 । (हारि०) व्याख्या-चत्वारि' मिथ्यादृष्ट्यादीनि गुणस्थानकानीति गम्यते ।क? इत्याह-देवनारकेषु प्रत्येक भवन्तीति शेषः । तथा पञ्च तिर्यवाद्यान्येव । तथा चतुर्दश नरेषु । इति मागितानि गतिषु गुणस्थानकानि,
ACANCAR-OLA-A
For Private And Personal Use Only