SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir A-%25AE %A SASARAKASH साम्प्रतमिन्द्रियेषु तान्याह-'इगिविगलेसुं' इति एकेन्द्रियविकलेन्द्रियेषु दे दे गुणस्थानके मिथ्यादृष्टिसासा दनलक्षणे भवतः । एकेन्द्रियेषु सासादनं प्राग्वत् । तथा पञ्चेन्द्रियेषु चतुर्दशापि गुणस्थानकानि भवन्ति । है इति गाथार्थः ॥ २७॥ इत्युक्तानि गुणस्थानकानीन्द्रियेषु, इतः कायादिषु चतुर्यु मार्गणास्थानेषु तान्येवाह(मल०) देवेषु नारकेषु च प्रत्येकमाद्यानि मिथ्यादृष्ट्यादीन्यविरतसम्यग्दृष्टिपर्यन्तानि चत्वारि गुणस्थानकानि भवन्ति न देशविरतादीनि, तेषु भवस्वभावतो देशतोऽपि विरतेरभावात् । 'पञ्च तिरिएसु' इति तिर्यक्षु पश्च गुणस्थानकानि भवन्ति, तत्र चत्वारि पूर्वोक्तान्येव, पञ्चमं तु देशविरतिगुणस्थानकम् , तेषु देशविरतेः सद्भावात् । तथा 'नरेषु' मनुष्येषु ल चतुर्दशापि गुणस्थानकानि भवन्ति, तेषु मिथ्यात्वादीनां शैलेश्यवस्थापर्यन्तानां सर्वभावानामपि संभवात् । तथैकेन्द्रिय-12 द विकलेन्द्रियेषु प्रत्येकं 'द्वे द्वे' मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके भवतः । तत्र मिथ्यादृष्टिगुणस्थानकमविशेषेण सर्वेषु ४ द्रष्टव्यम् । सासादनसम्यग्दृष्टिगुणस्थानकं पुनस्तेजोवायुवर्जप्रत्येकबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियेषु लब्ध्या पर्याप्तेषु करणेन ले त्वपर्याप्तेषु न सर्वेष्विति । 'पंचिंदीसुं चउद्दस वि' इति पञ्चेन्द्रियेषु चतुर्दशापि गुणस्थानकानि भवन्ति । तत्रासंज्ञिपञ्चेन्द्रियेषु द्वे मिथ्यादृष्टिसासादनसम्यग्दृष्टिलक्षणे गुणस्थानके प्राप्येते, तेषु लब्ध्या पर्याप्तेषु करणेन त्वपर्याप्तकेषु सासादनभावस्यापि लभ्यमानत्वात् । लब्ध्यपर्याप्तेषु तु तेषु मिथ्यादृष्टिलक्षणमेवैक गुणस्थानकम् । संज्ञिपश्चेन्द्रियेषु, पुनरपर्याप्तकेषु त्रीणि गुणस्थानकानि, तत्र द्वे पूर्वोक्त एव तृतीयं त्वविरतिसम्यग्दृष्टिगुणस्थानकम् । एतेष्वेव च करणपर्याप्तकेषु C For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy