________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CREASECRE5%AA-3
शुभाशुभविहायोगति १९-२० प्रत्येक २१ स्थिरा २२ ऽस्थिर २३ शुभा २४ ऽशुभ २५ निर्माण २६ नाम्नामुदयोदीरणाव्यवच्छेदः, अन्यतरवेदनीयस्य २७ च उच्छास २८ सुस्वर २९ दुःस्वराणां ३० च, ततोऽनन्तरसमयेऽयोगिकेवली भवति॥ 'अयोगिकेवलिगुणस्थानकम्' इति योगः पूर्वोको विद्यते यस्यासौ योगी, न योगी अयोगी, अयोगी चासौ केवली चायोगिकेवली तस्य गुणस्थानं अयोगिकेवलिगुणस्थानम् । तस्मिंश्च वर्तमानः कर्मक्षपणाय व्युपरतक्रियमप्रतिपातिध्यानमारोहति । एवमसावयोगिकेवली स्थितिघातादिरहितो यान्युदयवन्ति कर्माणि तानि स्थितिक्षयेणानुभवन् क्षपयति । यानि पुनरुदयवन्ति तदानीं न सन्ति तानि वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयन् वेद्यमानप्रकृतिरूपतया च वेदयन् तावद्याति यावदयोग्यवस्थाद्विचरमसमयः। तस्मिंश्च द्विचरमसमये देवगति १ देवानुपूर्वी २ शरी-| रपञ्चक ७ बन्धनपञ्चक १२ संघातपञ्चक १७ संस्थानषट्का २३ ऽङ्गोपाङ्गत्रय २६ संहननषट्क ३२ वर्णादिविंशति ५२ परा-3 घातो ५३ पघाता ५४ ऽगुरुलघू ५५ छास ५६ प्रशस्ता ५७ऽप्रशस्त ५८ विहायोगतिस्थिरा ५९ऽस्थिर ६० शुभा ६१ऽशुभ६२ सुस्वर ६३ दुःस्वर ६४ दुभंग ६५ प्रत्येका ६६ जनादेया ६७ ऽयश-कीर्ति ६८ निर्माणा ६९ ऽपर्याप्तक ७० नीचैर्गोत्रा७१ ऽसातासातान्यतरा ७२ नुदितवेदनीयानि द्विसप्ततिसंख्यानि स्वरूपसत्तामधिकृत्य क्षयमुपगच्छन्ति । चरमसमये तेषां || सर्वात्मना स्तिबुकसंक्रमेणोदयवतीषु प्रकृतिषु मध्ये संक्रमयिष्यमाणतया न स्वरूपसत्ता संभवति । संक्रमश्च सर्वोऽप्युक्तस्वरूपो मूलप्रकृत्यभिन्नासु परप्रकृतिषु द्रष्टव्यः। 'मूलप्रकृत्यभिन्नाः संक्रमयति, गुणत उत्तराः प्रकृतीः' इतिवचनात् । चरमसमये सातासातान्यतरोदितवेदनीय १ मनुष्यगति २ मनुष्यानुपूर्वी ३ मनुष्यायुः ४ पञ्चेन्द्रियजाति ५ त्रस ६
क. २७
For Private And Personal Use Only