SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षडशीतिप्रकरणम् ॥१५६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नादिः, मानसिको मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा पृष्टस्य सतो मनसैव देशनात् । ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनावधिज्ञानेन च पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारान्यथाऽनुपपत्त्या लोकस्वरूपादिकमपि बाह्यमर्थे पृष्टमवगच्छन्तीति । केवलं ज्ञानं दर्शनं चोक्तस्वरूपं विद्यते यस्य स केवली, सयोगी चासौ केवली च सयोगिकेवली तस्य गुणस्थानं सयोगिकेवलिगुणस्थानम् । सयोगिकेवली व जघन्येनान्तर्मुहूर्तम्, उत्कर्षतो देशोनां पूर्वकोटीं विहृत्य कश्चित् कर्मणां समीकरणार्थं समुद्वातं गच्छति यस्य वेदनीयादिकमायुषः सकाशादधिकतरम् । अन्यस्तु न गच्छत्येव । गत्वा चागत्वा च समुद्धातमघातिकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्पं परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधायोपक्रमत एव । तत्र पूर्व बादरका योगेन बादरमनोयोगं निरुणद्धि, ततो वाग्योगम्, ततः सूक्ष्मकाययोगेन बादरकाययोगम्, ततस्तेनैव सूक्ष्ममनोयोगम्, ततः सूक्ष्मवाग्योगम्, ततः सूक्ष्मकाययोगं निरुन्धानः सूक्ष्मक्रियाप्रतिपातिध्यानमारोहति । तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन संकुचितदेहत्रिभागवर्तिप्रदेशो भवति । योगनिरोधश्चैष विस्तरतरकेणास्माभिबृहद्धर्मसारटीकायामभिहित इति नेह पुनः प्रतायते । तस्मिंश्च ध्याने वर्तमानः स्थितिघातादिभिरायुर्वजनि सर्वाण्यपि अघातिकर्माणि तावदपवर्तयति यावत्सयोग्यवस्थाचरमसमयः । तस्मिंश्च चरमसमये सर्वाण्यपि कर्माण्ययोग्यवस्थासमस्थितिकानि जातानि । येषां च कर्मणामयोग्यवस्थायामुदयाभावः तेषां स्थितिं च स्वरूपं प्रतीत्य समयोनां विधत्ते । सामान्यतः सत्ताकालं त्वाश्रित्यायोग्यवस्थासमानामेव । तस्मिंश्च सयोग्यवस्थाचरमसमये औदारिक १ तैजस २कार्मणशरीर ३ संस्थानषङ्क ९ प्रथमसंहननौ १० दारिकाङ्गोपाङ्ग ११ वर्णादिचतुष्का १५ गुरुलघु १६ पघात १७ पराघात १८ For Private And Personal Use Only टीकाद्वयोपेतम् ॥ ॥ ४० ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy