________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHARMACARE
माणा, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः। शेषकर्मणां तु प्रवर्तन्त एव । तां च लोभस्यापवर्तितां स्थितिमुदयोदीरणाभ्यां वेदयन् तावद्गतः यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये उदीरणा स्थिता । तत उदयेनैव केवलेन तां वेदयति यावच्चरमसमयः । तस्मिंश्चरमसमये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कयशःकीmचैर्गोत्रान्तरायपञ्चकानां षोडशकर्मणां बन्धव्यवच्छेदः, मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति । ततोऽसावनन्तरसमये क्षीणकषायो २ जातः, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्तन्ते, यावत्क्षीणकषायाद्धायाः संख्येया भागा गता भवन्ति, एकः संख्येयो भागोऽवतिष्ठते । तस्मिंश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनचतुष्कनिद्राद्विकरूपाणां पोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति । केवलं निद्राद्विकस्य दलिकापेक्षया समयन्यूनं कालतस्तु तुल्यं करोति । सा च क्षीणकषायाद्धाऽद्याप्यन्तर्मुहूर्तप्रमाणा, ततः प्रभृति चैतेषां स्थितिघातादयः स्थिताः, शेषाणां तु भव|न्त्येव । तानि च षोडश कर्माणि निद्राद्विकवर्जितान्युदयोदीरणाभ्यां वेदयन् तावद्गतः यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये तेषां निद्राद्विकवर्जितानां चतुर्दशकर्मणामुदीरणा निवृत्ता। तत आवलिकामानं कालं यावदुदयनैव केवलेन तानि वेदयति यावत्क्षीणकषायाद्धाया द्विचरमसमयः । तस्मिंश्च द्विचरमसमये निद्राद्विकं स्तिबुकसंक्रमेणान्यत्र संक्रमयति । एवं निद्राद्विक स्वरूपसत्ताऽपेक्षया क्षीणम् । चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः । ततोऽनन्तरसमये केवली जायत इति ॥ 'सयोगिकेवलिगुणस्थानम्' इति योगो वीर्य परिस्पन्द इत्यनान्तरम् , सह योगेन वर्तन्ते ये ते सयोगा मनोवाकायाः ते यस्य विद्यन्त इति सयोगी। तत्र भगवतः काययोगश्चमणनिमेषोन्मेषादिः, वाचिको देश
For Private And Personal Use Only