SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir षडशीतिप्रकरणम् ॥१५५॥ वेदयति च तावद् यावत्समयाधिकावलिकामानं शेषः। तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्व्यव- मटीकाद्वयोच्छेदः। सत्कर्मापि च तस्याः समयोनावलिकाद्विकबद्धमात्रमेव, शेषस्य गुणसंक्रमेण लोभे प्रक्षिप्तत्वात् । ततोऽनन्तरसमये पतम् ॥ लोभस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावदन्तर्मुहूर्तमानं संज्वलनमायायाश्च बन्धादी व्यवच्छिन्ने सति तस्याः संबन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण लोभे प्रक्षिपन् चरमसमये सर्वसंक्रमेण संक्रमयति । संज्वलनलोभस्य च तदानीं प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं समयाधिकावलिकामात्रशेषं जातम् । ततोऽनन्तरसमये लोभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति, | तां च वेदयन् तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद् यावद्वितीयकिट्टिदलिकस्य प्रथमस्थितीकृतस्य समयाधिकावलिकामानं शेषः । तस्मिन्नेव च समये संज्वलनलोभस्य बन्धव्यवच्छेदः, बादरकषायोदयोदीरणाव्यवच्छेदः, अनिवृत्तिगुणस्थानककालव्यवच्छेदश्च युगपज्जायते । ततोऽनन्तरसमये सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तदानीमसौ सूक्ष्मसंपराय उच्यते । पूर्वोक्ताश्चावलिकाः द्वितीयतृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासुपरप्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता एव वेद्यन्ते । सूक्ष्मसंपरायश्च लोभस्य सूक्ष्मकिट्टीर्वेदयन् सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिपातादिभिस्तावत्क्षपयति यावत्सूक्ष्मसंपरायाद्धायाः संख्येयभागा गता भवन्ति, एकोऽवशिष्यते । ततस्तस्मिन् संख्येये |भागे संज्वलनलोभ सर्वापवर्तनयाऽपवर्त्य सूक्ष्मसंपरायाद्धासमं करोति, सा च सूक्ष्मसंपरायाद्धा अद्याप्यन्तर्मुहूर्त्तप्र ॥३९ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy