________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परितनस्थितिगतं दलिकं गुणसंक्रमेणापि प्रतिसमयमसंख्येयगुणवृद्धिलक्षणेन संज्वलनमाने प्रक्षिपति । तृतीयकिहिवेदनाद्धायाश्चरमसमये संज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपन्यवच्छेदः । सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धं मुक्त्वाऽन्यन्नास्ति, सर्वस्य माने प्रक्षिप्तत्वात् । ततोऽनन्तरसमये मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावदन्तर्मुहूर्तम् । क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य संबन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन माने गुणसंक्रमेण संक्रमयति । मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं समयाधिकावलिकाशेषं जातम् । ततोऽनन्तरसमये मानस्य द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयति च तावद् यावत्समयाधिकावलिकामानं शेषः। ततस्तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद्, यावत्समयाधिकाबलिकामानं शेषः । तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां | युगपत्यवच्छेदः । सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धमेव, शेषस्य क्रोधशेषस्येव माने मायायां प्रक्षिप्तत्वात् । ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावदू यावदन्तर्मुहूर्तमात्रम् ।। संज्वलनमानस्य च बन्धादौ व्यवच्छिन्ने तस्य संबन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण मायायां प्रक्षिपन् चरमसमये सर्वसंक्रमेण संक्रमयति । ततो मायायां च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं समयाधिकावलिकाशेष | जातम् । ततोऽनन्तरसमये मायाया द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावत्समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति
For Private And Personal Use Only