________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीतिप्रकरणम्
॥१५४॥
चाश्वकणकरणाद्धायां वर्तमानः पुरुषवेदं समयोनावलिकाद्विकेन क्रोधे गुणसंक्रमेण संक्रमयन चरमसमये सर्वसंक्रमण द टीकाद्वयोसंक्रमयति, तदेवं क्षीणः पुरुषवेदः । किट्टिकरणाद्धायां पुनर्वर्तमानश्चतुर्णामपि संज्वलनानामुपरितनस्थितिगतदलिकस्य पेतम् ॥ किट्टीः करोति । अथ किमिदं किद्धिः । इति, उच्यते, पूर्वस्पर्द्धकेभ्योऽपूर्वस्पडकेभ्यश्च प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकपवशादत्यन्तहीनरसाः कृत्वा तासामेकैकोत्तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापनम् । यथा यासामेव वर्गणानामसकल्पमयाऽनुभागभागानां शतमेकोत्तरादि चासीत् , तासामेव विशुद्धिवशादनुभागभागानां दशकस्य पञ्चदशकादेश्च व्यवस्थापनमिति । एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूलजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकैकस्य कषायस्य तिम्रस्तिस्रः । तद्यथा-प्रथमा द्वितीया तृतीया च । एवं क्रोधेन क्षपकोण प्रतिपन्नस्य द्रष्टव्यम् । यदाऽनुमानेन प्रतिपद्यते तदोलनविधिना पूर्वोक्तेन क्रोधे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नवकिट्टीः करोति । मायया चेत्प्रतिपन्नस्तर्हि क्रोधमानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्धिकस्य पूर्वक्रमेण षट किट्टीः करोति । यदि पुनर्लोभेन प्रतिपद्यते तत उद्लनविधिना क्रोधादित्रिके क्षपिते सति लोभस्य किद्वित्रिकं करोति । एषः किट्टीकरणविधिः । किट्टीकरणाद्धायां निष्ठितायां क्रोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावत्समयाधिकावलिकामात्रमवशिष्यते । ततोऽनन्तरसमये द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयति च तावद् यावत्समयाधिकावलिकामात्रमवशिष्यते । ततस्तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावदिहापि समयाधिकावलिकामाचं शेषः, तिसृष्वपि चामूषु किद्विवेदनाद्धासू
For Private And Personal Use Only