________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARRIER
तत्समयमेव च पुरुषवेदस्य बन्धोदयोदीरणाव्यवच्छेदः समयोनावलिकाद्विकवद्धं मुक्त्वा शेषदलिकस्य क्षयश्च । ततोऽसाविदानीमवेदको जातः । क्रोधं च वेदयतः सतस्तस्य क्रोधाद्धायास्त्रयो विभागा भवन्ति । तद्यथा-अश्वकर्णकरणाद्धा १, किट्टिकरणाद्धा २, किट्टिवेदनाद्धा ३ च । तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्द्धकानि चतुर्णामपि |संज्वलनानामन्तरकरणादुपरितनस्थितौ करोति । अथ किमिदं स्पर्द्धकम् ? इति, उच्यते, इह तावदनन्तानन्तैः परमाणुभिनिष्पन्नान् स्कन्धान जीवः कर्मतया गृह्णाति । तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुः तस्यापि रसः केवलिप्रज्ञया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति । अपरस्तु तानप्येकाधिकान् । अन्यस्तु व्यधिकान् । एवमेकोत्तरया वृद्ध्या तावन्नेयं यावदन्यः परमाणुः सिद्धानन्तभागाधिकान् रसविभागान् प्रयच्छति । तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणा इत्युच्यते । अन्येषां त्वेकाधिकरसभागयुक्तानां समुदायो द्वितीया वर्गणा । अपरेषां तु व्यधिकरसभागयुक्तानां समुदायस्तृतीया । एवमनया दिशैकैकरसभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागकल्पा अभव्येभ्योऽनन्तगुणा वाच्याः। एतासां च समुदायः स्पर्द्धकमित्युच्यते । स्पर्धन्त इवोत्तरोत्तरवृद्ध्या परमाणुवर्गणा अत्रेतिकृत्वा । इत ऊर्द्धमेकोत्तरया निरन्तरवृद्ध्या प्रवर्द्धमानो रसो न लभ्यते, किन्तु सर्वजीवानन्तगुणैरेव रसभागैः । ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्द्धकमारभ्यते । एवमेव च तृतीयम् ।। एवं तावद्वाच्यं यावदनन्तानि स्पर्द्धकानि । एतेभ्य एव च इदानीं प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुण-2 हीनरसाः कृत्वा पूर्ववत्स्पर्द्धकानि करोति । न चैवंभूतानि कदाचनापि पूर्व कृतानि ततोऽपूर्वाणीत्युच्यन्ते । अस्यां
For Private And Personal Use Only