________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्
॥१५३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्च संख्येयेषु भागेषु गतेषु सत्सु स्त्यानर्द्धित्रिक ३ नरकगति ४ तिर्यग्गति ५ एक ६ द्वि ७ त्रि ८ चतुरिन्द्रियजाति ९ नरकानुपूर्वी १० तिर्यगानुपूर्वी ११ स्थावरा १२ ऽऽतपो १३ द्योत १४ सूक्ष्म १५ साधारणा १६ नां षोडशप्रकृतीनां | प्रतिसमय मुद्वलनासंक्रमेणोद्वल्यमानानां पल्योपमासंख्येयभागमात्रा स्थितिर्जाता । ततो बध्यमानासु प्रकृतिषु गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि तानि षोडश कर्माणि निःशेषतोऽपि क्षीणानि भवन्ति । इहाप्रत्याख्यानावरणप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं परं नाद्यापि क्षीणं केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषोडशकं क्षपितम् । ततः | पश्चात्तदपि कषायाष्टकमुद्बलनविधिनाऽन्तर्मुहूर्तमात्रेण क्षपयति, एष सूत्रादेशः । अन्ये पुनराहुः - षोडश कर्माण्येव पूर्व क्षपयितुमारभते । केवलमपान्तरालेऽष्टौ कषायान् क्षपयति, पश्चात् षोडश कर्माणीति । ततोऽन्तर्मुहूर्तमात्रेण नवानां नोकषायाणां चतुर्णां च संज्वलनानामन्तरकरणं करोति, तच्च कृत्वा नपुंसक वेदमुद्वलनविधिना क्षपयितुमारभते । तत्रान्तरकरणस्योपरितनस्थितिदलिकमुद्बलनासंक्रमेणोद्वल्यमानमुद्वल्यमानं पल्योपमासंख्येयभागमात्रं जातम् । ततः प्रभृति बध्यमान प्रकृतिषु गुणसंक्रमेण तद्दलिकं प्रक्षिपति । तच्चैवं प्रक्षिप्यमाणं प्रक्षिप्यमाणमन्तर्मुहूर्तमात्रेण निःशेषं क्षीणम् । अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्रम् । तत्तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । तदेवं क्षपितो नपुंसक वेदः । ततोऽन्तर्मुहूर्तमात्रेण स्त्रीवेदोऽध्यनेनैव क्रमेण क्षिप्यते । ततः षड् नोकषायान् युगपत्क्षपयितुमारभते । ततः प्रभृति च तेषामुपरितनस्थितिदलिकं न | पुरुषवेदे संक्रमयति किन्तु संज्वलनक्रोध एव, एतेऽपि च पूर्वोक्तविधिना क्षिप्यमाणा अन्तर्मुहूर्तमात्रेण निःशेषाः क्षीणाः ।
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ ३७ ॥