________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च यथाऽवाप्यते तथा मूलत एव भाव्यते । इह या भपकश्रेणिमारभते सोऽवश्यं मनुप्यो वाधकाच्चोपरि बसमाप्तः, स च प्रथममनन्तानुबन्धिनो विसंयोजयति । तद्विसंयोजना च मागेव भणिता । ततो दर्शनमोहक्षपणार्थं यथाप्रवृत्तादीनि बीणि करणानि करोति । तत्र यावदपूर्वकरणं तावत्पूर्ववदेव वक्तव्यम् । अनिवृत्तिकरणाद्धायां च वर्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म तावदुद्वलनासंक्रमणोद्वलयति यावत्पल्योपमासंख्येभागमात्रमवतिष्ठते । सतो मिथ्यात्वदलिक सम्यक्त्वमिश्रयोः प्रक्षिपति, तच्चैवम्-प्रथमसमये स्तोकम्, द्वितीयसमये ततोऽसंख्येयगुणम् । एवं यावदन्तर्मुहूर्तचरमसमये आबलिकागतं मुक्त्वा शेष द्विचरमसमयसंक्रमिताइलिकादसंख्येयगुणं संक्रमयति । आवलिकागतं तु स्तिबुकसंक्रमेण सम्यक्त्वे संक्रमयति । एवं मिथ्यात्वं क्षपितम् । ततोऽन्तर्मुहूर्तमात्रेण सम्यग्मिथ्यात्वमण्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति । ततः सम्यग्मिथ्यात्वमपि क्षपितम् । ततः सम्यक्त्वमपवर्तयितुं तथा लग्नो यथाऽन्तर्मुहूर्तमात्रेणा तवण्यन्तर्मु
हूर्तमानस्थितिकं जातम् , तच्च क्रमेणानुभूयमानमनुभूयमानं सत्समयाधिकावलिकाशेषं जातम् । ततोऽनन्तरसटू मये तस्योदीरणाव्यवच्छेदः । ततो विपाकानुभवनेनैव केवलेन वेदयति यावच्चरमसमयः । ततोऽनन्तरसमयेऽसौ क्षायि
कसम्यग्दृष्टिर्जायते । उक्तो दर्शनत्रिकक्षपणाविधिः । इह यदि बद्धायुष्का क्षपकश्रेणिमारभते, तत एतावत्येवावतिष्ठते । | अथाबद्धायुष्कस्ततोऽन्तर्मुहूर्तमात्रे गते सति पुनरपि चारित्रमोहनीयक्षपणार्थ यथाप्रवृत्तादीनि त्रीणि करणान्यारभते, तेषां च स्वरूपं पूर्ववदेव वक्तव्यम् । तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यानावरणक्रोधादीन्यष्टौ कर्माणि तथा क्षपयति स्म यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तानि पल्योपमासंख्येयभागमात्रस्थितिकानि जातानि । अनिवृत्तिकरणाद्धा
For Private And Personal Use Only