________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्॥१५२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऊर्द्ध नियमादसौ प्रतिपतति । प्रतिपातश्च द्विधा, अवक्षयेण वज्राक्षयणे च । तत्र भवक्षमो वियमाणस्य । अद्धाक्षय उपशान्तानायां समाधायाम् । अद्धाक्षग्रेण च प्रतिपतम् यथैवारूढस्तथैव प्रतिप्रतति । यत्र यत्र बन्धादयो व्यवच्छिन्नास्तत्र तत्र प्रतिपतता सता ते आरभ्यन्त इति ज्ञानत् । प्रतिपतंश्च सावत्प्रतिपद्धति यावत्प्रमत्तसंयतगुणस्थानकम् । कश्चित् पुनस्ततोऽप्यधस्तनं गुणस्थानकद्विकं याति । कोऽपि सासादनभावमपि । यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धानादीनि करणानि प्रवर्त्तयतीत्येष विशेषः । उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपसश्रेणिं प्रतिपद्यते । यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात्तस्मिन् भवे क्षपकश्रेण्यभावः । यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भ| वेदपि इत्येष कार्मग्रन्थिकाभिप्रायः । सिद्धान्ताभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते । यत् उक्तं कल्पाध्ययने - " अन्यरसेढिकळं एगभवेणं च सवाई”। 'सवाई' इति सर्वाणि सम्यक्त्वदेशविरत्यादीनि । अन्यवाप्युक्तम्- "मोहोपशम एकस्मिन् भवे द्विः स्यादसंततः । यस्मिन् भवे सुपशमः क्षयो मोहस्य तत्र म ॥ १ ॥” इति ॥ 'क्षीणकषायवीतरागच्छद्मस्यगुणस्थानमिति' क्षीणा अभावमापचाः कषाया यस्य स क्षीणकषायः, तत्रान्येष्वपि गुणस्थानकेषु वक्ष्यमाणयुक्त्या क्वापि किवतामपि कषायाणां क्षीणत्वसंभवात्क्षीणकषायव्यपदेशः संभवति, ततस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् । | क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्तीति तद्व्यवच्छेदार्थं छद्मस्थग्रहणम् । यद्वा छद्मस्थः सरागोऽपि भवतीति तदपनोदार्थं वीतरागग्रहणम् । वीतरागश्चासौ छद्मस्थश्चेति वीतरागच्छद्मस्थः, स चोपशान्तकपायोऽपि भवतीति तन्निरासार्थं क्षीणकषायग्रहणम् । क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्च तस्य गुणस्थानं क्षीणकषायवीतरागच्छद्मस्त्रमुणस्थानम् । इदं
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ ३६ ॥