________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आणाव्यवच्छेदः । ततः समयोनावलिकाद्विकेन संज्वलनक्रोधमुपशमयति । ततोऽन्तर्मुहूर्तमात्रेणाप्रत्याख्यानावरणप्रत्या-| ख्यानावरणौ मानौ युगपदुपशमयति । तदुपशान्तौ च तत्समयमेव संज्वलनमानस्य बन्धोदयोदीरणाव्यवच्छेदः । ततः समयोनावलिकाद्विकेन संज्वलनमानमुपशमयति । ततो युगपदन्तर्मुहूर्तमात्रेणाप्रत्याख्यानावरणप्रत्याख्यानावरणे माये उपशमयति । तदुपशान्तौ च तत्समयमेव संज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः । ततोऽसौ लोभवेदको जातः। लोभवेदकाद्धायाश्च द्वयोस्त्रिभागयोर्वर्तमानो द्वितीयस्थितेः सकाशाद्दलिकमानीय प्रथमस्थितिं करोति वेदयति च । तत्र प्रथमस्त्रिभागोऽश्वकर्णकरणाद्धा तत्र विशुद्ध्या वर्द्धमानोऽपूर्वस्पर्द्धकानि करोति । अपूर्वस्पर्द्धकशब्दार्थ चाग्रे वक्ष्यामः । संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयोनावलिकाद्विकेन संज्वलनमायामुपशमयति । एवमश्वकर्णकरणाद्धायां गतायां ततो द्वितीये लोभवेदकाद्धायास्त्रिभागे वर्तमानो लोभस्य द्वितीयस्थितिगतस्य किट्टीः करोति । किट्टीकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानावरणप्रत्याख्यानावरणलोभावुपशमयति । तदुपशान्तौ च तत्समयमेव संज्वलनलोभबन्धव्यवच्छेदः बादरलोभोदयव्यवच्छेदश्च । ततोऽसौ सूक्ष्मसंपरायो भवति । तदा चोपरितनस्थितौ यत्किट्टीकृतं दलिकं तत्कतिपयं ततः समानीय प्रथमस्थितिं करोति वेदयति च, सा च सूक्ष्मसंपरायाद्धान्तर्मुहूर्तप्रमाणा । तदानीं च सूक्ष्मकिट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं चोपशमयति सूक्ष्मसंपरायाद्धायाश्चरमसमये संज्वलनलोभ उपशान्तो भवति, तत्समयमेव च ज्ञानावरणपञ्चक ५ दर्शनावरणचतुष्का९ऽन्तरायपञ्चक १४ यश कीयु १५ चैर्गोत्राणां १६ बन्धव्यवच्छेदः। ततोऽनन्तरसमयेऽसावुपशान्तकषायो भवति, सच जघन्येनैकसमयमात्रमुत्कर्षतोऽन्तर्मुहूर्त कालं यावल्लभ्यते । तत
ESSESXNXESS-13
For Private And Personal Use Only