SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षडशीतिप्रकरणम् ॥१५१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थितिं करोति शेषाणां त्वेकादशकपायाणामष्टानां च नोकषायाणामावलिकामात्राम् । वेदत्रिकसंज्वलनचतुष्टयस्य तृदयकालप्रमाणमिदम्-स्त्रीवेदनपुंसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः, ततः पुरुषवेदस्यासंख्येयगुणः, तस्मादपि संज्वलनक्रोधस्योदयकालो विशेषाधिकः, तस्मादपि मानस्य विशेषाधिकः । एवं यथोत्तरं मायालो भयोरुदयकालो विशेषाधिको वाच्यः । अत एवान्तरकरणमुपरितनभागापेक्षया समम्, अधोभागापेक्षया तूक्तनीत्या विषमम् । अन्तरकरणविधानकालश्च स्थितिघाताभिनवकर्मबन्धकालसमानः । अन्तरकरणगतस्य चोत्कीर्यमाणस्य दलिकस्य प्रक्षेपविधिरयम् - यस्य कर्मणस्तदानुभवनं बन्धश्च भवति तस्यान्तरकरणसत्कप्रदेशायं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदोदयारूढः । पुरुषवेदस्य यस्य पुनरनुभवनमस्तिं, न तु बंन्धः, तस्यान्तरकरणसत्कं दलिकं प्रथमस्थितौ प्रक्षिपति, यथा स्त्रीनपुंसकवेदोदयारूढः । स्त्रीनपुंसकवेदयोर्यस्य पुनरुदयो नास्ति, बन्धः पुनरस्ति, तस्यान्तरकरणसत्कं दलिकं द्वितीयस्थितौ प्रक्षिपति, यथा संज्वलनक्रोधोदयारूढः । शेषसंज्वलनानां यस्य पुनरुदयो बन्धश्च नास्ति तस्यान्तरकरणसत्कं प्रदेशायं परप्रकृतिषु प्रक्षिपति, यथा द्वितीयतृतीयकषायाणाम् । इहानिवृत्तिकरणे बहुवक्तव्यं तद्व्रन्थगौर वभयान्नोच्यते । केवलं विशेषार्थिना कर्मप्रकृतिसंग्रहणिर्निरीक्षितव्या । अन्तरकरणं च कृत्वा ततो नपुंसकवेदमन्तर्मुहूर्तमात्रेणोपशमयति । उपशमनाविधिः प्राग्वत् । ततोऽन्तर्मुहूर्तमात्रेण स्त्रीवेदम् । ततोऽन्तर्मुहूर्तेन हास्यादिषट्कम् । तस्मिंवोपशान्ते तत्समयमेव पुरुषवेदस्य बन्धोदयव्यवच्छेदः । ततः समयोनावलिकाद्विकेन पुरुषवेदमुपशमयति, ततो युगपदन्तर्मुहूर्तमात्रेणाप्रत्याख्यानावरणप्रत्याख्यानावरणक्रोधौ । तदुपशान्तौ च तत्समयमेव संज्वलनक्रोधस्य बन्धोदयोदीर For Private And Personal Use Only टीकाद्वयोपेतम् ॥ ॥ ३५ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy