________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यावन्निक्षेपविषयभूतान्तर्मुहूर्तचरमस्थितिः । द्वितीयसमयेऽपि यद्दलिकमन्तर्मुहूर्तादुपरितनस्थितिभ्यो गृह्यते, ततः प्रथम| समयगृहीतदलिकादसंख्येयगुणम्, तदपि निक्षिप्यमाणं पूर्ववदेवावगन्तव्यम् । एवं तृतीयादिसमयेष्वपि ग्रहणनिक्षेपौ द्रष्टव्यौ । विपाकानुभवतश्च क्षीयमाणास्वधस्तनस्थितिषु तत उपर्युपरितरमारभ्योदयावलिकात ऊर्द्ध शेषासु स्थितिषु शेषसमयगृहीतं दलिकं निक्षिप्यते इति । अधुना गुणसंक्रमो भण्यते - तत्रापूर्वकरणस्य प्रथमसमये यदनन्तानुबन्धिकपायसंबन्धिदलिकं परप्रकृतौ संक्रमयति तत्स्तोकम् । ततो द्वितीयसमये संक्रम्यमाणम संख्येयगुणम् । तृतीयसमयेऽसंख्येयगुणम् । एवं यावदपूर्वकरणाद्धायाश्चरमसमयः । तथाऽपूर्वकरणस्य प्रथमसमयेऽन्य एव स्थितिबन्ध आरभ्यते । स्थितिबन्धस्थितिखण्डे च युगपदारभ्येते युगपदेव च निष्ठां यातः । एवमेते पञ्च पदार्था अस्मिन्नपूर्वकरणे युगपदारभ्यन्ते । गतमपूर्वकरणम् । इदानीमनिवृत्तिकरणमुच्यते - अनिवृत्तिशब्दार्थभावना प्राग्वदवगन्तव्या । अत्रापि पूर्वोक्ताः स्थितिघातादयः पञ्च पदार्था युगपदारभ्यन्ते । तस्याश्चानिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वनन्तानुबन्धिनां कषायाणामन्तरकरणं करोति । तच्चैवम् - अधस्तादावलिकामात्रं मुक्त्वा तत उपरिष्ठादन्तर्मुहूर्तमात्रं स्थितिखण्डमुत्किरति । उत्कीर्यमाणं च दलिकं बध्यमानासु परप्रकृतिषु संक्रमयति । अन्तर्मुहूर्तमात्रकालेन च स्थितिबन्धकालसमेन तदन्तरकरणं परिसमाप्यते । तस्मिन्नेव च समये प्रथमस्थित्यावलिकागतं च दलिकं स्तिबुकसंक्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति । उपरितन स्थितिगतं च दैलिकमेवमुपशमयति- प्रथमसमये स्तोकम् । द्वितीयसमये ततोऽसंख्येयगुणम् । तृतीयसमये ततोऽ१ अनुदीर्णमुदीर्णान्तस्तुल्यकालं प्रतिक्षणम् । दलिकं संक्रमं याति येन स स्तिनुको मतः॥ १ ॥ २' दलिकमुपशमयितुमारभते । तच्चैवम्- "इत्यपि पाठः ।।
For Private And Personal Use Only