________________
Shri Mahavir Jain Aradhana Kendra
पंडशीति
प्रकरणम्॥१४४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनिवृत्तिबादरसंपरायगुणस्थानम् ९, सूक्ष्मसंपरायगुणस्थानम् १०, उपशान्तकपायवीतरागच्छद्मस्थगुणस्थानम् ११, क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् १२, सयोगिकेवलिगुणस्थानम् १३, अयोगिकेवलिगुणस्थानम् १४ इति । तत्र मिथ्या विपर्यस्ता दृष्टिर्जीवाजीवादिवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत्स मिथ्यादृष्टिः, गुणस्थानशब्दः प्राग्रनिरूपितशब्दार्थः, मिथ्यादृष्टेर्गुणस्थानं मिथ्यादृष्टिगुणस्थानम् । ननु यदि मिथ्यादृष्टिस्ततः कथं तस्य गुणस्थानसंभवः १, गुणा हि ज्ञानदर्शनचारित्ररूपाः, तत्कथं ते दृष्टौ विपर्यस्तायां भवेयुः । इति, उच्यते, इह यद्यपि तत्त्वार्थश्रद्धानलक्षणात्मगुणसर्वघातिप्रबलमिथ्यात्वमोहनीयविपाकोदयाद्वस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति, तथापि काचिन्मनुष्यपश्वादिप्रतिपत्तिरन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ताऽपि भवति । यथाऽतिबहलघनपटलसमाच्छादितायामपि चन्द्रार्कप्रभायां काचित्प्रभा, तथाहि — समुन्नतातिबहलजीमूतपटलेन दिवाकररजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः संपद्यते, प्रतिप्राणिप्रसिद्धदिनरजनीविभागाभावप्रसङ्गात् । उकं च - "सुहु वि मेहसमुदए, होइ पहा चंदसूराणं ।” इति । एवमिहापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्तापि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानकसंभवः । यद्येवं ततः कथमसौ मिथ्यादृष्टिरेव ? मनुष्यपश्वादिप्रतिपत्त्यपेक्षया अन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्त्यपेक्षया वा सम्यग्दृष्टित्वात्, नैष दोषः, यतो भगवदर्हत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्गतमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशात् । तदुक्तम् — “सूत्रोक्तस्यैकस्याऽप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ २८ ॥