SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणं जिनाभिहितम् ॥ १ ॥” इति । किं पुनः शेषो भगवदर्हदभिहितयथावज्जीवाजीवादिवस्तुतत्त्वप्रतिपत्तिविकल इति यत्किंचिदेवैतत् । मिथ्यात्वं च पञ्चधा तच्चोपरिष्टाद्वक्ष्यामः । आयमौपशमिकसम्यक्त्वलाभलक्षणं सादयति अपनयतीति आसादनं अनन्तानुबन्धिकषायवेदनम् । अत्र पृषोदरादित्वाद्यशब्दलोपः । “कृद्बहुलं" इतिवचनाच्च कर्तरि अनट् । सति हि अस्मिन् परमानन्दरूपानन्तमुखफलदो निःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो 'जघन्यतः समयमात्रेण उत्कर्षतः षङ्गिरावलिकाभिरपगच्छतीति । ततः सह आसादनेन वर्तत इति सासादनः । सम्यग् अविपर्यस्ता दृष्टिर्जिमप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, सासादनश्चासौ सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिः तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् । सास्वादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः । तत्र सह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः । यथा हि मुक्तक्षीरान्नविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति तथैषोऽपि | मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुद्रमन् तद्रसमास्वादयति । ततः स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानम् । एतचैवं भवति, इह गम्भीरापार संसारपारावारमध्यमध्यासीनो जन्तु| मिथ्यादर्शनमोहनीयादिप्रत्ययमनन्तपुद्गलपरावर्तान् यावदनेकशारीरिक मानसिकदुःखलक्षाण्यनुभूय कथमपि तथाभव्य| त्वपरिपाकवशतो गिरिसरिदुपलघोलना कल्पेनानाभोग निर्वर्तितेन यथाप्रवृत्तकरणेन करणं परिणामोऽत्रेतिवचनादध्यवसायविशेषरूपेण ज्ञानावरणीयादिकर्माण्यायुर्वर्णानि सर्वाण्यपि पत्योपमासंख्येयभागन्यूनैक सागरोपमकोटीकोटीस्थितिकानि करोति । अत्र चान्तरे जीवस्य कर्मपरिणामजनितो घनरागद्वेषपरिणामरूपः कर्कशनिबिडचिरप्ररूढगुपिलवल्क For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy