SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति मार्गितानि मार्गणास्थानेषु चतुर्दशापि जीवस्थानानि, साम्प्रतमेतेष्वेव गुणस्थानकान्यभिवित्सुस्तन्नामसूचामाह ( मल० ) 'असंज्ञिनि' संज्ञिव्यतिरिके 'आइ बारस' इति आदिमानि द्वादश जीवस्थानकानि भवन्ति, सर्वेषामपि विशिष्टमनोविकलतया संज्ञिप्रतिपक्षत्वाविशेषात्, संज्ञिप्रतिपक्षस्य चाऽसंज्ञित्वेन व्यवहारात् । तथाऽनाहारकेऽष्टौ जीवस्थानकानि भवन्ति, कानि ? इत्यत आह- सप्तापर्याप्तकाः सूक्ष्मैकेन्द्रियादयः, विग्रहगतावेकं द्वौ श्रीन् वा समयान् यावत्तेषामाहारासंभवात्, संज्ञी च पर्याप्तकः, स च केवलिसमुद्घातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु । तदुक्तम्"चतुर्थपञ्चमतृतीयेष्वनाहारकः” इति । उपसंहारमाह - 'इय' इत्यादि । इतिरेवमुक्तेन प्रकारेण 'गत्यादिषु' मार्गणास्थानकेषु जीवस्थानकानि भवन्तीति ॥ २५ ॥ तदेवमुक्तानि मार्गणास्थानेषु जीवस्थानकानि, साम्प्रतमेतेष्वेव गुणस्थानकान्यभिधित्सुस्तान्येव तावत्स्वरूपतो निर्दिशति मिच्छे १ सासण २ मिस्से, ३ अविरय ४ देसे ५ पमत्त ६ अपमते ७ । निय८ि अनिय९ि सुहुमु १० वसम ११ खीण १२ सजोगि १३ अजोगि १४ गुणा ॥ २६ ॥ ( हारि०) व्याख्या - सूचकत्वात्सूत्रमितिन्यायात्पदावयवेषु पदसमुदायोपचाराद्वा । तथा एकारान्ताः शब्दाः प्रथमान्ता ज्ञेयाः प्राकृतशैलीवशात् । “कयरे आगच्छछ दित्तरुवे” इत्यादिवदिति यथायोगं For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy