________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्
॥ १४१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( हारि० ) व्याख्या -- मनः पर्यायज्ञाने १ 'केवलदुर्ग' इति केवलज्ञाने २ केवलदर्शने च ३ 'संजय' इति गुणगुणिनोरभेदोपचारेण संयमो गृहीतस्ततः सामायिके ४ छेदोपस्थापनीये ५ परिहारविशुद्धिके ६ सूक्ष्मसंपरा ७ यथाख्याते ८ देशविरतौ ९ मिश्रदृष्टौ १० च संज्ञिपर्यातकपश्चेन्द्रियरूपमेकं जीवस्थानकं दशसु स्थानेषु भवतीति शेषः । तथा चक्षुर्दर्शने त्रीणि जीवस्थानानि पर्याप्तकचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियरूपाणि भवन्तीति । अत्रैवं विकल्पमाह - 'छव पचियर चरमा' इति षड् वा पर्यासापर्यासरूपाणि चरमाणि जीवस्थानानि चतुरिन्द्रियप्रभृतीनां भवन्तीति शेषः । इह कैञ्चिदिन्द्रियपर्याप्तिपर्याप्तावस्थायामपि चक्षुर्दर्शनाभ्युपगमात् । इति गाथार्थः ॥ २३ ॥
तथा
( मल०) मनःपर्यायज्ञाने 'केवलद्विके' केवलज्ञान केवलदर्शनरूपे 'संयतेषु' सामायिकादिपञ्चप्रकारसंयमवत्सु देशयते मिश्रदृष्टौ च संज्ञिपर्याप्तलक्षणमेकं जीवस्थानं प्राप्यते नान्यत् । तथाहि न तावन्मनः पर्यायशाने केवलद्विके पञ्चमकारे व सामायिकादौ संयमे देशसंयमे वाम्यज्जीवस्थानकं संभवति, तत्र सर्वदेशविरत्योरभावात् । सम्यग्मिथ्यादृष्टिता च पर्याप्तसंज्ञिव्यतिरेकेण शेषेषु जीवस्थानकेषु तथाविधपरिणामाभावान्न संभवतीति । 'चक्खुमि तिन्नि' इति चक्षुर्दर्शने त्रीणि जीवस्थानकानि पर्याप्तचतुरिन्द्रियासंज्ञिसंज्ञिपश्चेन्द्रियलक्षणानि भवन्ति नान्यानि तेषु तदसंभवात् । अत्रैव मता
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
।। २५ ।।