________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तावत्तद्भावमापन्नः सन् कालं न करोत्येव । यदुक्तमागमे-"अणबंधो १दय २ माउगबंध ३ कालं ४ च सासणो कुणइ । उवसमसम्मद्दिट्ठी, चउण्हमेकंपि नो कुणइ ॥१॥” यस्तूपशमश्रेणिमारूढः सन् मृत्वाऽनुत्तरसुरेघूत्पद्यते तस्य प्रथमसमय एव सम्यक्त्वपुद्गलोदयात् क्षायोपशमिकं सम्यक्त्वं भवति न त्वौपशमिकम् । उक्तं च शतकबृहचूर्णी-"जो उवसमसम्मद्दिट्टी उवसमसेढीए कालं करेइ सो पढमसमए चेव सम्मत्तपुंज उदयावलियाए छोहण सम्मत्तपोग्गले वेयइ, तेण न उवसमसम्मदिही अपजत्तगो लब्भई" इत्यादि । अपरे पुनराहुः-भवत्येवापर्याप्तावस्थायामप्यौपशमिक सम्यक्त्वम् , सप्ततिचूादिषु तथाऽभिधानात् । सप्ततिचूर्णी हि गुणस्थानकेषु नामकर्मणो बन्धोदयादिमार्गणावसरेऽविरतसम्यग्दृष्टेरुदयस्थानचिन्तायां पञ्चविंशत्युदयः सप्तविंशत्युदयश्च देवनारकानधिकृत्योक्तः । तत्र नारकाः क्षायिकवेदकसम्यग्दृष्टयः, देवाश्च त्रिविधसम्यग्दृष्टयोऽपि । तथा च तद्रन्थः-"पणुवीस सत्तावीसोदया देवनेरइए पडुच्च नेरइमो खइगवेयगसम्मदिही देवो तिविहसम्मदिठी वि" इति । पञ्चविंशत्युदयश्च शरीरपर्याप्तिं निर्वर्तयतः । सप्तर्वित्युिदयश्च शरीरपर्याप्त्या पर्याप्तस्य शेषपर्याप्तिभिः पुनरपर्याप्तस्य । ततोऽपर्याप्तावस्थायामपीहौपशमिकं सम्यक्त्वमुक्तम् । तथा पञ्चसंग्रहेऽपि मार्गणास्थानकेषु जीवस्थानकचिन्तायामौपशमिकसम्यक्त्वे-"उर्वसमसम्ममि दो सण्णी" इत्यनेन ग्रन्थेन संज्ञिद्विकमुक्तम् । ततश्चाचार्येणापीहोक्तम्-"तिसु य सम्मेसु' इति । तवं पुनः केवलिनो विदन्तीति ॥ २२॥ .. मणपज्जवकेवलदुगसंजयदेसजयमीसदिट्ठीसु । सन्नीपजो चक्खुम्मितिन्नि छ व पन्जियर चरमा ॥ २३ ॥
१ "सन्नी सम्ममि दोणि" इत्यपि पाठः ।।
PRAKAKKARANA
For Private And Personal Use Only